________________
२४८
परशुरामकल्पसूत्रम्
देकादशार्णखण्डान् मातृकास्थानेषु मूलमनुपदानि च न्यस्य ॥ १२ ॥
शिरोव द ने ति । पूर्वोक्तसप्तार्णमन्त्रपञ्चकं शिरआदिपञ्चसु स्थानेषु न्यसेत् । पादद्वयं मिळित्वैकं स्थानम् । विद्या मिति मूलविद्यां अष्टधा ख ण्ड यि त्वा विभज्य क्रमेण अष्टखण्डानष्टसु स्थानेषु विन्यसेदित्यर्थः । स्थानानि तानि कानि इत्याकांक्षायामाह—पादा दिजा न्विति ललाटा दि मौ कि वित्यन्तेन । पादादिजान्वित्यत्र जानुपर्यन्तमिति तदर्थः । तेन प्रथमखण्डन्यासे जान्ववयवलेशो न । एवमग्रेऽपि । अष्टधा खण्डयेदित्युक्तम् । तत्रैकखण्डे कियन्तो वर्णाः इत्याकाङ्क्षायामाह--एक त्रिंश दि त्या दि ना । मूलस्य खण्डाष्टकं क्रमादेकत्रिंशदादिसंख्याकं भवतीत्यर्थः । इत्यष्टखण्डन्यासः । मूलपदन्यासमाह--मातृ का स्था नेषु इति । मातृकास्थानानि-शिरः १, मुखवृत्तं २, नेत्रद्वितयं ४, कर्णद्वयं ६, नासाद्वयं ८, कपोलद्वयं १०, ओष्ठद्वितयं १२, दन्तपङ्क्तिद्वितयं १४, जिह्वा १५, ब्रह्मरन्ध्र १६, दक्षदोर्मूलं १७, बाहुमध्यं १८, मणिबन्धः १९, अङ्गुलिमूलं २०, अङ्गुल्यग्रं २१, एवं वामदोर्मूलादारभ्य अङ्गुल्यग्रान्तं पञ्च २६, दक्षोरुमूलं २७, तज्जानु २८, तत्पादसन्धिः २९, तत्पादाङ्गुलिमूलं ३०, तदङ्गुल्यग्रं ३१, एवं . वामभागे पञ्च ३६, पार्श्वद्वयं ३७, पृष्ठं ३८, नाभ्यूरुजठराणि ४१, हृदि ४२, स्कन्धद्वयं ४४, गळापरभागं ४५, हृदयादिदक्षपाण्यन्तं ४६, हृदयादिवामपाण्यन्तं ४७, हृदयादिदक्षपादान्तं ४८, हृदयादिवामपादान्तं ४९, नाभिमूर्धनी ५१, एवं एकपञ्चाशत्स्थानानि । अत्र प्रमाणं परमानन्दतन्त्रे
मस्तके मुखवृत्ते च नेत्रयोः श्रोत्रयोर्नसोः । गण्डोष्ठदन्तयुगळे जिह्वायां ब्रह्मरन्ध्रके ॥ पाणिद्वये मूलमध्यमणिबन्धेषु वै क्रमात् । शिखामूले तदने च तद्वत् पदयुगे न्यसेत् ॥ पार्श्वद्वये पृष्ठनाभिजठरेषु तथा हृदि । स्कन्धयोर्गळपृष्ठे च हृदयात् पाणिपादयोः ॥ नाभौ मूर्ध्नि च देवेशि क्रमादादींस्तु विन्यसेत् ॥