Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 385
________________ दशमः खण्डः - सर्वसाधारणक्रमः ३६१ " श्रूयते । एवमग्निहोत्रे " यद्वे समिधावादध्यात् भ्रातृव्यमस्मै जनयेत्" इति समिद्वये निन्दा श्रूयते । तथा सति अग्निहोत्रे अनुदितहोमः समिद्वयं त्रयं चतुष्टयं च शाखाऽन्तरप्रतिपादितं अननुष्ठेयं स्यात् । तस्मात् यत्र निन्द्रा श्रूयते तच्छाखिनामेव तदावश्यकता नान्येषाम् । स्वशास्त्राविरुद्धं तु आकाङ्क्षितं तन्त्रान्तरात् ग्राह्यं इत्युक्तं .. मपञ्चप्राक् । अतः प्रायश्चित्ताकाङ्क्षायां यावदुपयुक्तं ग्राह्यं विरुद्धं हेयम् । कालाभेऽपि नित्यक्रम प्रत्यवसृष्टिः " इति सूत्रेण अलाभे कर्मविधानात् प्रतिशास्त्रं तन्त्रान्तरस्थं प्रतिनिधिशास्त्रं प्राप्तम् । तेन सह स्वात्मीकारादिनिषेधोऽपि प्राप्तोऽपरिहार्यः । एवं प्रतिनिध्यर्चने शक्तिपूजाऽपि तत्त्वशोधनं विहाय कार्या || ३९ - ६०॥ झटित्युद्वा स्येति-उत्तराङ्गलोपं कृत्वोद्वास्येत्यर्थः ॥ ६१-६२ ॥ अथोप घात दोषस्येति उपघातशब्दार्थ उक्त बृहद्वामकेश्वरतन्त्रे - उच्छिष्टरक्तमूत्रादिसंपर्कों यदि जायते । पूजनायोग्यता हेतोरुपघातः स उच्यते । स्थानात भ्रंशेष्वेवमेव महादोषकरः स्मृतः ॥ इति ।। ६३-६६ ।। स्फुटिते भेदने अवयवभङ्ग इति यावत् । म हा सान्तपन मुक्तं तन्त्रे महासान्तपनाख्यं च करिष्ये देवतात्रतम् । ततः शिवालये पुण्ये नदीतीरे रहःस्थले || तिथिसंख्यशतं मूलं जप्त्वा होमं समाचरेत् । वृताक्तबिल्वपत्रैश्च ततो रात्रौ सुभक्तितः ॥ चक्रराजार्चनं देवि कारयित्वा यथाविधि । पूजां सामयिकांतां च निर्वर्त्य च ततः प्रिये ॥ स्वीकृत्य च यथायोग्यं त्रिचतुः पञ्चपात्रकम् । ग्रासं हि पात्रस्यान्ते वै प्रत्येकं भक्षयेत् प्रिये ॥ 1 समं च --- ब२. 46

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413