Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 397
________________ ३७४ परशुराम कल्पसूत्रम् एकेन द्वयं द्वाभ्यां त्रयं त्रिभिश्चतुष्टयमित्येवं क्रमेण तानङ्कान् गुणयेत् ॥ २ ॥ तेन सकलह्रींरूपेषु ध्रुवेषु मायाबीजस्य शिरसि शून्यं लकारस्य शिरस्येकं ककारस्य द्वौ सकारस्य षट् हकारस्य चतुर्विंशतिः इति सिध्यति ॥ ३ ॥ ईदृशस्य बिन्द्राद्यं कवर्गस्य खण्डाङ्क इति संज्ञा नष्टोद्दिष्टादिषु व्यवहारार्थं कृता ॥ ४ ॥ तत औत्तराधर्येण चतुर्विंशतिवारं विलिख्य तदधस्तथैव सकारांस्तदधः ककारांस्तदधः लकारांस्तदधः मायां विलिखेत् ॥ ५ ॥ ततः अनयैव रीत्या सादिचतुष्टयं षट्षड्वारं लिखेत् ॥ कादित्रयं द्विद्विवारं लिखेत् ॥ ७ ॥ लकारमायां च एकैकवारं लिखेत् ॥ ८ ॥ एवं सति द्वितीयपङ्कौ एकमक्षरं न्यूनं संपद्यते ॥ ९ ॥ तं लकारं पञ्चमस्थाने लिखेत् ॥ १० ॥ प्रथमपङ्किस्तु पूर्वमेव पूर्णास्तीति न तत्र लेखनप्रसक्तिः ॥ ११ ॥ तृतीयादिषु पङ्गिषु द्वौ द्वौ वर्णो न्यूनौ भवतः, तावेकस्यां पङ्कौ क्रमाद्विलिख्य तदधस्तनपङ्कौ व्युत्क्रमात् तावेव लिखेत् ॥ १२ ॥ पुनस्तनपङ्किद्वये विशिष्टौ ध्रुवौ तौ क्रमान् क्रमाभ्यां लिखेत् ॥ १३ ॥

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413