Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 404
________________ ३८१ परशुरामकल्पसूत्रपरिशिष्टम् तस्मादाभिरसाध्यानि न कदाचिच्च कुत्रचित् विद्यते तेषु यत्किंचित् वक्ष्ये कोशेषु तोन्यै वदेन्नाथात्मकानि येन स्युस्तेन च मैभित्वा षोडशधा मन्त्री विदध्यात् ॥ १६ ॥ विनियोजकं विशालमध्यविन्यासं विदध्यात् ॥ १७॥ नवकोष्ठकं प्रागादिमध्यपर्यन्तं प्रादक्षिण्यक्रमाल्लिखेत् ॥ १८॥ नवानि नवसु प्राज्ञस्तेषु ऋक्षाणि चालिखेत् । सप्तम्या साध्यसंयुक्तं नाथां देवीश्च तत्क्रमात्॥१९॥ यद्यद्विवाञ्छितं कर्म तत्तत्तेषु विलिख्य वै । पीठे वा भूतले वाऽपि पूजयेत् प्रोक्तवासरम् ॥ २० ॥ ततः प्राप्ते वाञ्छितार्थे खात्मन्युद्वास्य देवताः। चक्रं प्रक्षाळ्य तत्तोयं केदारादिषु निक्षिपेत् ॥ २१॥ एवमन्यानि यत्राणि प्रोक्तानि क्रमशो भुवि । विनियोज्यान्यभीष्टेषु कार्येषुक्तक्रमेण वै ॥ २२ ॥ परसङ्ख्यासमेतानि तेषु तेष्वप्ययं विधिः । सर्वतः सौम्यकर्माणि सिद्धयन्ते वाऽनया द्रुतम् ॥२३॥ वश्येषु ज्ञानसंपत्त्यै सर्वप्रत्यूहशान्तये । लक्ष्मीप्राप्तौ तथारोग्यसिद्धौ रोगार्तिशान्तिषु ॥ २४ ॥ विजयाय समस्तापत्तरणायाभिवृद्धये । पुत्रावात्यै च रक्षायै पूजयेत् तेषु तत्क्रमात् ॥ २५॥ गजाश्वगोखरोष्ट्राजमहिषीणां विवृद्धये । तेषां रोगादिपीडासु तच्छान्त्यै च यथाक्रमम् ॥ २६ ॥

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413