Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
परशुरामकल्पसूत्र परिशिष्टम्
तचिह्नद्वयं प्रापयत् सूत्रं तत्पूर्वापरं परिकल्प्य तच्चिह्नद्रयावष्टंभेन तच्चिह्नान्तराळमानस्य चेष्टाधिकेनार्धमानेनान्योन्यसमेते किंचिदन्योन्यसंश्लिष्टं पूर्वापरं वृत्तद्वयं विधाय तद्वृत्त रेखादक्षिणोत्तरसन्धिद्वयप्रापि प्राकूपश्चिमसूत्रमध्य - गत्या तिर्यग्रूपेण यत् सूत्रं दक्षिणोत्तरं परिकल्प्य तत्प्राकू प्रत्यक्दक्षिणोत्तरसूत्रद्वय संपाताद्वृत्तवक्ष्यमाणमानेन तुल्यरूपपरिकल्पितसूत्रायैस्तैस्तेषां मण्डपादीनां प्राक्प्रत्यग्दक्षिणोत्तरात्मक दिक्चतुष्टयं परिकल्पयेत् ॥ १६ ॥
सर्वप्रयत्नेन विद्याराधितद्वारा पूर्णताख्यातिसमावेशनेच्छा चेत्येते समयाचारिकाः परे च शास्त्रानुशिष्टाः ॥ इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्य सर्वतः कृतकृत्यता शरीरत्यागे श्वपचग्रहकारयोर्नान्तरं जीवन्मुक्तो भवति ॥ १८ ॥
य इमामष्टादशखण्डीं महोपनिषदं महात्रैपुरसिद्धान्त सर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति । यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति हि श्रूयते इत्युपनिषत् इति शिवम् ॥ १९ ॥
य एवं वेदेत्युपनिषत् ॥ २० ॥
भद्रं नो अपि वादय मनः ओं शान्तिः शान्तिः
शान्तिः ॥ २१ ॥
46 C
३८५
इत्यष्टादश: खण्ड:
इति श्रीपरशुरामकल्पसूत्रपरिशिष्टं द्वितीयभागः सम्पूर्णम् ॥

Page Navigation
1 ... 406 407 408 409 410 411 412 413