Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 407
________________ ३८४ परशुरामकल्पसूत्रम् तत्र भानोर्गत्या आदित्यदक्षिणोत्तरायणक्रमगतिभेदज्ञानच्छाययेति यावत् ॥ ११ ॥ तन्मध्यं बिन्दुमध्यं इत्येतत्क्रियाविशेषणम् ॥ १२ ॥ पूर्वापरद्वये पूर्वापरात्मिकयोः दिशोः प्राग्वच्छिन्ने कृत्वेत्यर्थः ॥ १३ ॥ तदभिमतः तद्वयमवष्टभ्य सममानपरिभ्रान्त्या तच्चि - हृदयान्तराळ मानपरिभ्रान्त्यां स्वेच्छाधिकेनार्धेन मानेन अन्योन्यतुल्येन परिभ्रान्त्यां कृत्वा वृत्तद्वयं कृत्वेत्यर्थः ॥ १४ ॥ तयोः पूर्वापरयोः संश्लेषसंजातमध्यदक्षोत्तरस्थित इत्यस्य उत्तरत्र सन्धिद्वये इत्येते विशेषं प्राक्प्रत्यक् सूत्रमध्ये प्राक्प्रत्यगात्मसूत्रमध्ये तु संहारे दक्षोत्तरं दक्षिणोत्तरं तेषां मण्डपादीनामयैः सूत्रायैः ॥ १५ ॥ एतदुक्तं भवति-— जीमूताद्यपरिवेष्टितभानौ दिवसे छायादिभिरनावृतदेशे जलयन्त्रादिभिः सुसमीकृतस्य दर्पणोदरसंकाशस्य भूतलस्य मध्ये बिन्दुं कृत्वा तद्वष्टम्भतः प्रतिदिशं द्वादशाङ्गुलमानेन वृत्तं कृत्वा तत्र षडङ्गुलमानपरिणाहमूलमुत्तरोत्तरपरिणाहापचयेन सूचीमात्रीकृताय - परिणाहं मृद्वाकृतिं शङ्कुमूलमानोच्छ्रायसहितं वृत्ताकारं शिल्पिवरेण निर्मितं वृत्तमध्यस्थबिन्दुमध्ये यथा शङ्कुमूलपरिणाहमध्यं भवति तथा तच्छङ्कुच्छायाग्रस्य पूर्वाहे तत्तद्वृत्तरेखापश्चिमभागे यत्र संपातस्तत्र ततोऽपराह्ने तच्छङ्कुच्छायाग्रस्य तद्वृत्तरेखा पूर्वभागे चिह्नं विधाय

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413