Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 405
________________ ३८२ परशुरामकल्पसूत्रम् निर्माय नवयत्राणि तत्र तत्रार्चयेच्छिवाम् । तेषु तेषूक्तकार्येषु तत्तत्संप्राप्तिहेतवे ॥ २७ ॥ नवप्रकारयुक्तानि षोडशप्रथमादिषु । तिथिषु प्रोक्तरूपाणि तत्र तां सर्वमङ्गळाम् ॥ २८ ॥ पूजयेत् काङ्क्षितावाप्त्यै तेन सर्वसिद्धिर्भवतीति शिवम् ॥ २९ ॥ इति सप्तदशः खण्डः अथातो वासनां व्याख्यास्यामः ॥१॥ तदात्मकं समुदयं मदात्मिकापि विश्रितम् । हयात्मकं आत्मस्वरूपं तैर्भावयेत् ॥ २ ॥ कालेनान्यत्वदुःखार्तिवासनाशतशो ध्रुवम् । पराहन्तामयं सर्वखरूपस्वात्मविग्रहम् ॥ ३ ॥ सदात्मकं स्फुरत्ताख्यं अशेषोपाधिवर्जितम् । प्रकाशरूपमात्मत्वे वस्तु सद्भासते परम् ॥ ४ ॥ वरयन्ते एवमतो लोके नान्यत्र मत्रवदक्षरम् । यद्विद्येति हि मन्वीत सर्वधा सर्वतः सदा ॥५॥ अथ मत्रार्थः ललितायास्त्रिभिर्वणः सकलार्थोऽभिधीयते । शेषेण देवीरूपेण तेन स्यादिदमीरितम् ॥ ६ ॥

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413