Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
20
परशुरामकल्पसूत्रम्
पूर्वोक्तैर्विद्यादियोजितैः षट्सप्तत्यधिकपञ्चशतैरक्षरैः तत्संख्यारूपभेदाय अन्त्ये प्रत्येकं क्रमात् षोडशस्वरयोजनतः षोडशाधिकद्विशतोत्तरनवसहस्र संख्याविद्यारूपाणि भवन्तीति तैः संप्रोक्तसंख्यैः विद्यारूपैः प्रयोजयेद्यत्रैरिति आदौ वृत्तत्रयं तद्दहिः षट्कोणं तद्दहिरष्टदळं विधाय हिर्वृत्तत्रयं विदध्यात् ॥ ४ ॥
तेषु विद्याकूटानुक्तक्रमेण न्यसेत् ॥ ५ ॥ तेष्वाद्यं मध्यतः साध्यसमेतं विलिखेत् ॥ ६ ॥ षट्कोणेषु चत्वारि चत्वारि विलिखेत् ॥ ७ ॥ अष्टच्छदेषु प्रत्येकं पञ्चपञ्च समालिखेत् ॥ ८ ॥ बहिर्वृत्तान्तरयुगे मातृकां मायया चितां विलोमामनुलोमा स्वेन सम्यक् समालिखेत् ॥ ९ ॥
अन्तः षडन्तराळेषु पर्यायदिनसंभवे नित्ये लिखेत् ॥ प्रादक्षिण्येन सर्वत एवं यत्राणि जायन्ते ॥ ११ ॥ तैः कूटैरुक्तयोगतः शतं च चत्वारिंशच्च चत्वारि च. ततः क्रमादिति वृतं एवमन्यानि कूटानि प्रोक्तानि क्रमेण विलिखेत् ॥ १२ ॥
"
मध्ये नामसमेतानि तदन्यान्यभितो लिखेत् ॥ १३ ॥ त्रयोदशमितैर्लक्ष्यैः सप्तविंशतिसंख्याकैः सहस्रैश्च शतेनापि चतुर्भिः तानि संख्यया यत्राणि जायन्ते ॥ १४ ॥ तैश्च सा सर्वमङ्गळा एवं कामेश्वर्यादिषोडशनित्यानां पृथक् पृथक् यन्त्राणि स्युः ॥ १५ ॥
-

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413