Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
परशुरामकल्पसूत्रम्
तेन तेष्वङ्केषु प्रत्येकमेकाङ्कनिरासे सति त्र्येक व्येकशून्यानि संपद्यन्ते ॥ ४ ॥
ते चाङ्काः लकारादीनामधः क्रमाल्लेख्याः ॥ ५॥
अथ अधोकेनोर्खाङ्क गुणयित्वा तत्तदक्षराधोकाधःक्रमेण लिखेत् ॥ ६॥
यथा चतुर्विंशतिस्त्रिभिहननात् द्वासप्ततिभिः षण्णामेकेन हननात् षट् द्वयोर्द्वाभ्यां घाते चत्वारः एकस्यैकेन हनने एकं शून्यस्य शून्येन गुणने शून्यं एवमेतेषां सर्वेषां मेळने त्र्यशीतिः तेष्वकाङ्कप्रक्षेपे चतुरशीतिः संपद्यते इति शिवम् ॥ ७॥
इति पञ्चदशः खण्डः
अथातो योनियत्रं व्याख्यास्यामः ॥ १॥
खेष्टमानेन त्रिकोणं विलिख्य, तिसृषु रेखासु दशदश चिह्नानि समांशाङ्कानि कृत्वा, तेषु दशदश सूत्राणि पातयेत् इत्येकविंशत्यधिकशतसङ्ख्याकाः प्रस्तोत्पन्नभेदा भवन्ति ते तत्र लेख्याः सर्वमध्यत्रिकोणे कर्म लेख्यम् ॥२॥ ___ इत्थं योनिचक्रं विधाय, लिङ्गचक्रं व्याकुर्मः ॥३॥
पूर्वे एकं चतुष्कोष्ठात्मकं कोष्ठं विलिख्य, तदधः कोष्ठत्रयं तदधः पञ्च तदधः पार्श्वयोः षट् षड्विहाय यथासंप्रदायं चत्वारिंशत्कोष्ठात्मकं लिङ्गं विलिख्य, तत्संलग्नं

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413