Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 400
________________ परशुरामकल्पसूत्रपरिशिष्टम् यथा वाग्बीजात्मकबीजचतुर्थे लकारः ॥ ६ ॥ सजिज्ञासितवृत्ते प्रथमो वाग्बीजात्मके द्वितीयः सकार एव तत्र द्वितीयः ॥ ७ ॥ अथानयोः लकारसकारयोः पूर्वलिखितत्वात् परित्यागे गणने वाग्बीजपञ्चम एव तृतीयो भवति ॥ ८ ॥ माययैव जिज्ञासितवृत्ते तृतीया कथकवर्गात् द्वितीयोपात्तसकारपरित्यागेन गणनया ककार एव पूर्वो भवतीति स तत्र चतुर्थः ॥ ९ ॥ वाग्बीजस्य प्रथमो हकारः स तत्र पञ्चमो भवतीति लसह्रींकह इत्याकारकं चतुरशीतितमं वृत्तं निष्पद्यते इति शिवम् ॥ १० ॥ ३७७ इति चतुर्दश: खण्ड: 46 B इत्थं कृतनष्टो सह्रींकह इत्याकारकं वृत्तं पञ्चध्रुवप्रस्तारे कतितममिति जिज्ञासायां तद्वृत्तं भूमौ विलिख्य तच्छिरसि खण्डाङ्कान् लिखेत् ॥ १ ॥ ते यथा - चतुर्विंशतिः षट् द्वे एकं शून्यं चेति ॥ २ ॥ ते च लकारादयः वर्णाः कॢप्तक्रमेषु हसकलह्रीं इत्याकारकेषु पञ्चसु ध्रुववर्णेषु पूर्वलिखितपरित्यागेन गणनया चतुर्थद्वितीयतृतीयद्वितीयप्रथमाः क्रमेण भवन्ति ॥ ३ ॥

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413