Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
परशुरामकल्पसूत्र परिशिष्टम्
३७५
एवमान्तकरणेनैकः प्रस्तारखण्डो भवति ॥ १४ ॥
यावन्तो ध्रुवास्तावन्त एव तत्प्रस्तारस्य खण्डाः
म
समसङ्ख्यावृत्तका भवन्ति ॥ १५ ॥
तेष्वा खण्डे वृत्ताद्यो ध्रुवाद्य एव द्वितीये खण्डे ध्रुवद्वितीय एव वृत्तायः, तृतीये खण्डे ध्रुवतृतीय एवेत्यपि नियमोऽस्ति ॥ १६ ॥
ततश्च द्वितीयखण्डप्रथमवृत्ते पूर्व एव कृतद्वितीयस्य सकारात् परतः संस्थापयेत् ॥ १७ ॥
एवं तृतीयखण्डादिमवृत्ते कहसलहीमिति क्रमः ॥ चतुर्थखण्डादौ लहसकहीं, पञ्चमखण्डादौ ह्रीं इसकल इति क्रमः ॥ १९ ॥
प्रथमखण्डान्ततृतीयवृत्तेऽपि यौ द्वौ शिष्येते तौ graft कीमिति लेख्यौ प्रथमवृत्ते तयोः पौर्वापर्यस्य क्लृप्तस्य त्यागे मानाभावात् ॥ २० ॥
एतेन नवमादिवृत्तेष्वपि सकारह्रींकारयोः क्रमेण लेख इत्यादि सिध्यति ॥ २१ ॥
तत्तत्खण्डद्वितीयादिवृत्तानि प्रथमखण्डवदेव लेख
नीयानि ॥ २२ ॥
यावत्प्रथमखण्डाद्यवृत्ताक्षराणि व्युत्क्रमेण पतन्ति तावत्पर्यन्तोऽयं प्रस्तारः प्रथमवृत्त प्रथमाक्षरशिरोंको ध्रुवाणसङ्ख्यया गुणितश्चेत् प्रस्तारवृत्तसङ्ख्यापि निष्पद्यते ॥ २३ ॥

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413