Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 384
________________ परशुरामकल्पसूत्रम् I श्चित्तानां दृष्टत्वात् ॥ २० ॥ सहस्रं वेत्यत्र वाकार एवकारार्थे । व्य त्या से वैपरीत्ये । एवं पूर्वोक्तप्रायश्चित्तम् । अङ्गाङ्गेषु अङ्गभूतेषु कर्मसु अङ्गत्वेन विहितानि, यथा पात्रासादनादिरूपप्रधानाङ्गमुद्दिश्य तदङ्गत्वेन मण्डलादिकरणं, ईदृशानां लोपे स्मृतिः भगवत्स्मरणम् ॥ २१ ॥ अङ्गं तन्त्रेणेति- — यत्र पूजाद्वयं एककाले प्राप्तं तदङ्गानामप्येककालिकत्वात् कालैक्ये कत्रैक्ये दर्शपूर्णमासयोः प्रयाजाद्यनुष्ठानबत् तन्त्रेण पात्रासादनं कुर्यात् । तत्रापि कार्यकारणयोः विना निमित्ते सति नैमित्तिकं यत् तत्र नाङ्गानां तन्त्रम् । यथा दर्शपूर्णमासमध्ये पवित्रनाशे पवित्रेष्टिः । तदीयप्रयाजानां दर्शपूर्णमासप्रयाजानां न तन्त्रम् । तथाऽत्रापि । तथा अन्तरे कालान्तरे । यथा नित्यपूजा प्रातः नैमित्तिकी रात्रौ तत्र न तन्त्रम् । एवं भिन्नार्थे पु भिन्नफलकेषु यथा दीक्षायां पञ्चदेवतापूजा युगपत् प्रसक्ता तत्र पात्रासादने न तन्त्रं तत्तद्देवतातर्पणरूपभिन्नत्वात् । यथा दर्शपूर्णमासयोः पुरोडाशभेदः ॥ २२ ॥ बिन्दुतर्पण व्यत्यासे इति - व्यत्यासो द्विविधः मुख्यदेवतापात्रादमुख्यदेवतातर्पणं, तद्विपरीतं अमुख्यपात्रान्मुख्यदेवतातर्पणं च । द्वयोर्मध्ये आद्यस्य प्रायश्चित्तमाहपुनस्तर्पणमिति ॥ २३ ॥ द्वितीये आह— व्युत्क्र में इति । विपरीत इत्यर्थः ॥ २४–२५ ॥ तन्त्रान्तरानुयायिनां मुख्यदेवतागुरुमण्डलावरणदेवतादिपात्राणां पृथग्विहितत्वात् एतत्प्रायश्चित्तनिमित्तज्ञानाय देवतासु मुख्यगौणभावं दर्शयति-- मूल देवी तर्पणादित्या दिना ॥ २६-३५ ।। मुख्याभावे द्रव्यप्रतिनिधियोजने अनुष्ठाने यो विशेषस्तमाह - तर्पण मिति । द्वितीयद्रव्यप्रतिनिधौ तर्पणं कुसुमे न । आद्यद्रव्यप्रतिनिधौ आवाहनात् प्राक् स्वात्मी का रो यो विहितः स नास्ति । गुरु पूजन मक्षतैः न तु प्रतिद्रव्येण तर्पणम् ॥ ३६ ॥ अक्षतैः गुरुमर्चयित्वा संपूर्ण मन्त्रं पठन् मनसा स्वात्मीकारं भावयेदिति तदर्थः । बाह्य पूजा यथोक्ता कर्तव्या ॥ ३७ ॥ यदा घुटि का पूजासाधनत्वेन कल्पिता तदा द्वितीयस्थाने आर्द्र क मेव ॥ ३८ ॥ त्रिपात्रन्यूनं न कार्यम् । इदं त्रिपात्रविधानं द्विपात्रनिन्दातन्त्रानुयायिपरं न सूत्रानुयायिपरम् । उक्तं चैतद्वितत्य प्राक् । न तत्तन्त्रे प्रत्यक्षे युग्मपात्रे निन्दाश्रवणेन सर्वथा अननुष्ठेयं भवति । तथा सति I (4 यदनुदिते सूर्ये प्रातर्जुहुयात् उभयमेवाग्नेयः स्यात्" इत्यनुदितहोमे निन्द्रा ३६० 3

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413