________________
परशुरामकल्पसूत्रम्
I
श्चित्तानां दृष्टत्वात् ॥ २० ॥ सहस्रं वेत्यत्र वाकार एवकारार्थे । व्य त्या से वैपरीत्ये । एवं पूर्वोक्तप्रायश्चित्तम् । अङ्गाङ्गेषु अङ्गभूतेषु कर्मसु अङ्गत्वेन विहितानि, यथा पात्रासादनादिरूपप्रधानाङ्गमुद्दिश्य तदङ्गत्वेन मण्डलादिकरणं, ईदृशानां लोपे स्मृतिः भगवत्स्मरणम् ॥ २१ ॥ अङ्गं तन्त्रेणेति- — यत्र पूजाद्वयं एककाले प्राप्तं तदङ्गानामप्येककालिकत्वात् कालैक्ये कत्रैक्ये दर्शपूर्णमासयोः प्रयाजाद्यनुष्ठानबत् तन्त्रेण पात्रासादनं कुर्यात् । तत्रापि कार्यकारणयोः विना निमित्ते सति नैमित्तिकं यत् तत्र नाङ्गानां तन्त्रम् । यथा दर्शपूर्णमासमध्ये पवित्रनाशे पवित्रेष्टिः । तदीयप्रयाजानां दर्शपूर्णमासप्रयाजानां न तन्त्रम् । तथाऽत्रापि । तथा अन्तरे कालान्तरे । यथा नित्यपूजा प्रातः नैमित्तिकी रात्रौ तत्र न तन्त्रम् । एवं भिन्नार्थे पु भिन्नफलकेषु यथा दीक्षायां पञ्चदेवतापूजा युगपत् प्रसक्ता तत्र पात्रासादने न तन्त्रं तत्तद्देवतातर्पणरूपभिन्नत्वात् । यथा दर्शपूर्णमासयोः पुरोडाशभेदः ॥ २२ ॥ बिन्दुतर्पण व्यत्यासे इति - व्यत्यासो द्विविधः मुख्यदेवतापात्रादमुख्यदेवतातर्पणं, तद्विपरीतं अमुख्यपात्रान्मुख्यदेवतातर्पणं च । द्वयोर्मध्ये आद्यस्य प्रायश्चित्तमाहपुनस्तर्पणमिति ॥ २३ ॥ द्वितीये आह— व्युत्क्र में इति । विपरीत इत्यर्थः ॥ २४–२५ ॥ तन्त्रान्तरानुयायिनां मुख्यदेवतागुरुमण्डलावरणदेवतादिपात्राणां पृथग्विहितत्वात् एतत्प्रायश्चित्तनिमित्तज्ञानाय देवतासु मुख्यगौणभावं दर्शयति-- मूल देवी तर्पणादित्या दिना ॥ २६-३५ ।। मुख्याभावे द्रव्यप्रतिनिधियोजने अनुष्ठाने यो विशेषस्तमाह - तर्पण मिति । द्वितीयद्रव्यप्रतिनिधौ तर्पणं कुसुमे न । आद्यद्रव्यप्रतिनिधौ आवाहनात् प्राक् स्वात्मी का रो यो विहितः स नास्ति । गुरु पूजन मक्षतैः न तु प्रतिद्रव्येण तर्पणम् ॥ ३६ ॥ अक्षतैः गुरुमर्चयित्वा संपूर्ण मन्त्रं पठन् मनसा स्वात्मीकारं भावयेदिति तदर्थः । बाह्य पूजा यथोक्ता कर्तव्या ॥ ३७ ॥ यदा घुटि का पूजासाधनत्वेन कल्पिता तदा द्वितीयस्थाने आर्द्र क मेव ॥ ३८ ॥ त्रिपात्रन्यूनं न कार्यम् । इदं त्रिपात्रविधानं द्विपात्रनिन्दातन्त्रानुयायिपरं न सूत्रानुयायिपरम् । उक्तं चैतद्वितत्य प्राक् । न तत्तन्त्रे प्रत्यक्षे युग्मपात्रे निन्दाश्रवणेन सर्वथा अननुष्ठेयं भवति । तथा सति
I
(4
यदनुदिते सूर्ये प्रातर्जुहुयात् उभयमेवाग्नेयः स्यात्" इत्यनुदितहोमे निन्द्रा
३६०
3