________________
दशमः खण्डः - सर्वसाधारणक्रमः
३६१
"
श्रूयते । एवमग्निहोत्रे " यद्वे समिधावादध्यात् भ्रातृव्यमस्मै जनयेत्" इति समिद्वये निन्दा श्रूयते । तथा सति अग्निहोत्रे अनुदितहोमः समिद्वयं त्रयं चतुष्टयं च शाखाऽन्तरप्रतिपादितं अननुष्ठेयं स्यात् । तस्मात् यत्र निन्द्रा श्रूयते तच्छाखिनामेव तदावश्यकता नान्येषाम् । स्वशास्त्राविरुद्धं तु आकाङ्क्षितं तन्त्रान्तरात् ग्राह्यं इत्युक्तं .. मपञ्चप्राक् । अतः प्रायश्चित्ताकाङ्क्षायां यावदुपयुक्तं ग्राह्यं विरुद्धं हेयम् । कालाभेऽपि नित्यक्रम प्रत्यवसृष्टिः " इति सूत्रेण अलाभे कर्मविधानात् प्रतिशास्त्रं तन्त्रान्तरस्थं प्रतिनिधिशास्त्रं प्राप्तम् । तेन सह स्वात्मीकारादिनिषेधोऽपि प्राप्तोऽपरिहार्यः । एवं प्रतिनिध्यर्चने शक्तिपूजाऽपि तत्त्वशोधनं विहाय कार्या || ३९ - ६०॥ झटित्युद्वा स्येति-उत्तराङ्गलोपं कृत्वोद्वास्येत्यर्थः ॥ ६१-६२ ॥ अथोप घात दोषस्येति उपघातशब्दार्थ उक्त बृहद्वामकेश्वरतन्त्रे -
उच्छिष्टरक्तमूत्रादिसंपर्कों यदि जायते ।
पूजनायोग्यता हेतोरुपघातः स उच्यते ।
स्थानात भ्रंशेष्वेवमेव महादोषकरः स्मृतः ॥ इति ।। ६३-६६ ।।
स्फुटिते भेदने अवयवभङ्ग इति यावत् । म हा सान्तपन मुक्तं तन्त्रे
महासान्तपनाख्यं च करिष्ये देवतात्रतम् । ततः शिवालये पुण्ये नदीतीरे रहःस्थले || तिथिसंख्यशतं मूलं जप्त्वा होमं समाचरेत् । वृताक्तबिल्वपत्रैश्च ततो रात्रौ सुभक्तितः ॥ चक्रराजार्चनं देवि कारयित्वा यथाविधि । पूजां सामयिकांतां च निर्वर्त्य च ततः प्रिये ॥
स्वीकृत्य च यथायोग्यं त्रिचतुः पञ्चपात्रकम् । ग्रासं हि पात्रस्यान्ते वै प्रत्येकं भक्षयेत् प्रिये ॥
1 समं च --- ब२.
46