________________
दशमः खण्डः-सर्वसाधारणक्रमः
क्षताङ्गो ज्वरिताङ्गश्च मण्डलाहाह्यतः स्थितः । मलाङ्गो मलवस्त्रश्च उप्णीषी कञ्चुकी तथा ॥ ९६ ॥ कुष्ठी क्षताङ्गी कुनखी पूतिगन्धी ज्वराङ्गकः । क्रोधी कुटिलभावश्च नास्तिकोऽप्यजितेन्द्रियः ॥ ९७ ॥ ... पातकी भ्रमचित्तश्च गुरुद्रोही च वञ्चकः । प्रविष्टो मण्डलं यस्य तस्य शापो भवेत् तव ॥ ९८ ॥ तदोषपरिहारार्थ पुनर्भण्डलमाचरेत् । वीरासनं कुक्कुटं च नाचरेन्मण्डले शिवे ।। ९९ ॥ न प्रदश्यों च चरणौ न वदेदुच्चभाषणम् । कलहो रोदनं निद्रा पारुप्यं मर्मभाषणम् । न वदेच्छिवभावेन सर्व तत्र तु भावयेत् ॥ १० ॥ विहाय जिह्वाचापल्यं इन्द्रियाणि निगृह्य च । शिवोऽहमिति पूर्ण वै भावयन् शिवतां व्रजेत् ॥ १०१ ॥ इत्येतत्ते मयाऽऽख्यातं गोप्यात् गोप्यतरं शिवे । प्रायश्चित्तविधौ देवि किं पुनः श्रोतुमिच्छसि ॥ १०२ ॥
इति श्रीस्वतन्त्रतन्त्रे त्रयोदश:पटलः ॥ . . अस्मात् पटलात् सुखं बालानामर्थलाभाय कठिनांशं किंचिद्वितनोमि---- पुनःक्रि ये त्यन्तो ग्रन्थः सन्ध्यामात्रप्रायश्चित्तपरः, पूजायां पृथग्वक्ष्यमाणत्वात् ॥४-७ ॥ सन्ध्या ऽन्त रे द्वितीयसन्ध्याकाले प्राप्ते पूर्वसन्ध्यानिवृत्तिः, विहितप्रायश्चित्तमात्रम् ॥ ८-९॥ पु न म ण्ड ल मा च रे त् इति अग्रे दीपनाशप्रायश्चित्ते विविच्यते ॥ १०-१६ ॥ पूजा न य मिति आवरणार्चनं ओघत्रयतिथिनित्याऽर्चनं समयाम्नायार्चनं. चेत्यर्थः । पीठ पूजा धर्मादिपूजा ॥ १७ ॥ अर्पणं उपचारार्पणम् । दे ह शु द्धिः भूतशुद्धिः । सा म यि का दी त्यादिना आरादुपकारकनिखिलशेषाङ्गानां ग्रहणम् ॥ १८-१९ ॥ मू ले न त र्पणाष्ट क मित्यत्र तर्पणं प्रथमेनैव । तदवसरश्च नवावरणपूजाऽनन्तरं, ततः प्राग्वा, श्रौते प्रधानात् प्राक् तदनन्तरं वा नैमित्तिकप्राय