________________
३५८
परशुरामकल्पसूत्रम् कन्याया नास्ति संस्कारः विधवां तु परित्यजेत् । मातरं गुरुपत्नी च ज्येष्ठपत्नीमृते शिवे ॥ ८३ ॥ बालोपदेशिनां पात्रत्रितयं तत्त्वशोधनम् । पात्रं दक्षकरे गृह्य वामहस्तेन तर्पणम् ॥ ८४ ॥ महावाक्यान्तयोग्यानां तत्त्वपात्रचतुष्टयम् । तर्पणं पूजनं च स्यात् पादुकाऽन्ते तु पूजनम् ॥ ८५ ॥
आत्मविद्याशिवाख्यादितत्त्वपात्राणि वै शिवे । समष्टिरथपूर्ण च सांकय त्रितये भवेत् ॥ ८६ ॥ समष्टिपूर्णके देवि सांकर्य बहुदोषकृत् । तस्मात् प्रक्षाळ्य देवेशि समष्टिं पूर्णपात्रकम् ॥ ८७ ॥ स्वीकुर्यादन्यथा देवि जपेदष्टसहस्रकम् । आत्मतत्त्वं शक्तिशेषं सर्वेषां देवि संमतम् ॥ ८८ ॥ पञ्चाम्नायोर्ध्वगानां तु पश्चाद्वा पञ्चपात्रतः । प्रथमं शक्तिशेषं स्यात् द्वितीयादित्रयं शिवे ॥ ८९ ॥ वीरोच्छिष्टं तु ज्येष्ठस्य अन्यथा पापमाप्नुयात् । गुरोस्तु सर्व संग्राह्यं शक्तिशेषादनन्तरम् ॥ ९० ॥ स्वशेषं नैव शक्त्यै तु देयं शिष्यामृते शिवे । अत्र प्रमादो यदि चेजपेदष्टसहस्रकम् ॥ ९१ ॥ आत्मशेषं तु ज्येष्ठेषु दत्वा व्यहमुपोषणम् । उभयोरपि तुल्यं स्यात् प्रायश्चित्तं वरानने ॥ ९२ ॥ . अभुक्त्वैव तु तत्त्वानां शोधनं त्वाचरेच्छिवे । पूजनं चापि देवेशि अन्यथा पतितो भवेत् ॥ ९३ ॥ गुर्वादीनां यथा चाज्ञा स्वात्मतत्त्वं तु शोधयेत् ।। सद्यः काले त्वयं पक्षः ज्ञात्वा भुक्तो बहिष्कृतः ॥ ९४ ॥ भुक्त्वा तत्त्वं शोध्य देवि जपेदयुतसंख्यकम् । अनानेऽप्येवमेव स्यादशक्तौ गौणमाचरेत् ॥ ९५ ॥