________________
दशमः खण्डः - सर्वसाधारणक्रमः
प्रसङ्गादत्र सर्वेषां आचारं कथयामि ते I विप्रार्चायां तु सर्वेषां स्वात्मीकारो विधीयते ॥ ७० ॥ अनन्तरस्य पूजायां पूर्वस्यानर्हतेप्यते ।
न्यूनदीक्षावतां चापि व्यवस्थैषा सुसम्मता ॥ ७१ ॥ दीक्षाभेदमथो वक्ष्ये वाला प्रथमतो मता । द्वितीया पञ्चदश्युक्ता चतुरान्नायजा परा ७२ ॥ पञ्चानाया चतुर्थी स्यात् षोडश्यन्ता तु पञ्चमी । षष्ठी चरणविद्याऽन्ता सप्तमी वासनान्तका ॥ ७३ ॥ रहस्यान्ता चाष्टमी स्यात् नवमी षोडशी परा । षड्दर्शनान्ता दशमी महावाक्यान्तिमा ततः ॥ ७४ ॥ द्वादशी श्रीपादुकाऽन्ता न्यूनं तत्पूर्वमुच्यते । विप्रक्षत्रिययोदेवि सर्वदीक्षाऽर्हता भवेत् ॥ ७५ ॥ रहस्यान्ता तु वैश्यस्य षोडश्यन्ता तु शूद्रके । श्रेष्ठवर्णाद्दीक्षणं स्यादभावे तुल्यवर्णतः ॥ ७६ ॥ शूद्रो नैव गुरुर्देवि तस्मात् दीक्षां परित्यजेत् । अनर्हाद्दीक्षणं लब्ध्वा परित्यागो मनोः स्मृतः ॥ ७७ ॥ न्यूनाश्रमेऽनन्तरे वा गुरुशक्त्योस्तु संमतः ।
स्वात्मीका महादेवि निषेध [षिद्ध] स्त्वितराश्रमः ॥ ७८ ॥ अन्येषां तु प्रमादेन स्याज्जपसहस्रकम् । उच्छिष्टभक्षणेऽप्येषा व्यवस्था देवि सम्मता ॥ ७९ ॥ न्यूनवर्णाश्रमाणां तु त्रिरात्रोपोषणं तथा । शक्त्यभीष्टे तु दीक्षिता यदि लभ्येत दीक्षाहीनां परित्यजेत् ।
नैषा स्याद्वयवस्था तत्र चोत्तमा ॥ ८० ॥
अलभ्या यदि चान्या स्यात्तदा संस्कारमाचरेत् ॥ ८१ ॥ मूलशङ्खोदकैः प्रोक्ष्य पञ्चवाणषडङ्गके ।
विन्यस्य तस्या देहे तु दक्षकर्णे श्रियं वदेत् ॥ ८२ ॥ 1 विद्याषोडशका परा -- ब २०
३.५७