________________
- परशुरामकल्पसूत्रम्
आवाहनानन्तरं तु महाविघ्नो भवेद्यदि । पात्रादिकं समुद्वास्य देवतां स्थापयेत् तथा ॥ ५७ ॥ .. कार्यान्ते तत्र पात्रादिस्थापनं संविधाय च । . संकल्पेन विना देवि आवृतिं तु समापयेत् ॥ ५८ ॥ यावन्तो दिवसा देवि व्यतीतास्तावदावृतिम् । पायसेन हुनेत् तस्य दोषस्येहापनुत्तये ॥ ५९ ॥ मूलेनाष्टोत्तरशतं हुत्वा पूज्य च सामयान् । क्षमापयेत् ततो देवी गुरुं चापि सुखी भवेत् ॥ ६० ॥ उद्वासनात्तु पूर्व वै पूजाऽन्ते सङ्कटे स्थिते । झटित्युद्वास्य देवेशी विसृजेन्मण्डलं ततः ॥ ६१ ।। अतीतविघ्ने देवेशि सहस्रं प्रजपेन्मनुम् । अपराधान्मुच्यते वै दोषस्तत्र न विद्यते ॥ ६२ ॥ अथोपघातदोषस्य प्रायश्चित्तं शृणु प्रिये । देवताहेतुकलशविशेषायॊपघाततः ॥ ६३ ।। कर्तुमत्युस्तु षण्मासात् तस्य शान्ति ब्रवीमि ते । यस्योपघातः संस्थाप्य पुनस्तत् पूजयेत् ततः ॥ ६४ ॥ पश्चात् व्यहमनश्नन् वै जपेत् दशसहस्रकम् । पूजयेच्च यथाशक्ति देवीं क्षीरेण स्नापयेत् ॥ ६५ ॥ अष्टोत्तरशतं हुत्वा गुरुं पूज्य च मुच्यते । आवाहनस्थापनाच्च पूर्व जपसहस्रकम् ॥ ६६ ॥ उपघातात्तत्स्फुटिते महासांतपनं चरेत् । उपघाते तु शंखस्य धीर ह्य]ष्टोत्तरसहस्रकम् ॥ ६७ ।। दीक्षाऽऽदिप्वप्येवमेव शान्तिः स्यादुपघातके । दीपोपघाने देवेशि पुनर्मण्डलमाचरेत् ॥ ६८ ॥ . साधकानां दत्तपात्रस्योपघाते शतं जपः । । पूजकानां साधकानां तुल्यमेतद्विधीयते ॥ ६९ ॥....