________________
दशमः खण्ड:--सर्वसाधारणक्रमः
३५५
आर्द्रकान्तं मूलकं स्यात् क्षीरादौ मन्त्रसंजपः । । प्रत्यक्षतो द्वितीय तु एतत्प्रत्यक्षमिप्यते ॥ ४३ ॥ द्वितीयादिकपर्यायं स्थापयेदष्टदिश्वथ ।। अथवा मन्त्रजापो वै नित्यं तुर्य तु सर्वदा ॥ ४४ ॥ पञ्चमे शृणु देवेशि द्वैविध्यं चोक्तमेव ते । आद्यं तत्र कलौ देवि त्रिसहस्रान्तमिप्यते ॥ ४५ ॥ द्वितीयं तु भवेत् देवि स्वयोषिति सुरेश्वरि । अथवा लिङ्गयोन्योश्च कुसुमं तत्र योजयेत् ॥ ४६॥ काश्मीरपङ्के मूलेन श्वेतचन्दनपङ्ककम् । संयोज्य योजयेत् देवि मूलाष्टजप एव वा ॥ ४७ ॥ द्रव्यं साक्षात् पञ्चमं तु दुर्लभं तु कलौ युगे। जितेन्द्रियाणां धीराणां योगिनां सुलभं भवेत् ॥ ४८॥. कदाचिच्छक्तितः पूर्व क्षोभे जाते शिवस्य वै।। शक्त्यसंतोषतो देवि नाशमेति स वै पुमान् ॥ ४९ ॥ . तस्मात् स्वस्यां परस्यां वा अन्त्यं नैव समाचरेत् । प्रतिनिध्यैव कर्तव्यं कलौ देवि सुनिश्चितम् ॥ ५० ॥ उपासको नु नित्यं वै परिवारार्चनं चरेत् । नित्यामण्डलकं चैव गुरुमण्डलकं तथा ॥ ५१ ॥ पञ्चिकां समयां चैव आम्नायसमयां यजेत् ॥ ५२ ॥ .. अथवा दिननित्यास्तु नित्यां च गुरुमण्डलम् ।। समष्टया पञ्चिकां चापि पूजयेदापदादिषु ॥ ५३ ॥ परमापत्तिकाले तु आवृतेः पञ्चकं त्रिकम् । समष्टया चेतरत् सर्वं परमापत्तिगोचरम् ॥ ५४ ॥ पूजाऽन्तरे महाविघ्ने प्राप्ते संशृणु निश्चितम् ।। पूर्व संकल्पतो देवि न दोषस्तत्र विद्यते ॥ ५५ ॥ .. संकल्यानन्तरं देवि विसृज्योपोषणं चरेत् । .. . सपर्यो मानसीं कुर्वन् पुनः पूजां समाचरेत् ॥ ५६ ॥.....