________________
३५४
1
परशुरामकल्पसूत्रम्
पात्रद्वयं तु प्रत्यक्षपूजनेनैव कारयेत् ।
आद्य प्रतिनिधिर्यत्र तत्र पात्रद्वयं स्मृतम् ॥ ३० ॥ तद्वयाधिकं नैव कार्य पात्रं सुरेश्वरि । द्रव्यप्रतिनिधिं चात्र प्रसङ्गात् कथयामि ते ॥ ३१ ॥ आद्याभावे तु घुटिकासारयुक्तजलार्पणम् । मत्रयं चाष्टगन्धेन समानघुटिका भवेत् ॥ ३२ ॥ तदभावे नारिकेलजलं पात्रे तु कांस्यके । तदभावे ताम्रपात्रे क्षीरं वाऽथ गुडोदकम् ॥ ३३ ॥ अथवा गन्धतोयेन पूजां नैव तु लोपयेत् । द्वितीयभेदं देवेशि शृणु संयतमानसा ॥ ३४ ॥ पूर्वोक्तभेदान्यतमा पलाण्डुर्वाऽऽर्द्रकं तु वा । प्रत्यक्षाद्ये द्वितीयादिप्रत्यक्षं देवि योजयेत् ॥ ३५ ॥ द्रव्यप्रतिनिधौ देवि तर्पणं कुसुमेन वै । स्वात्मीकारादिकं नास्ति अक्षतैर्गुरुपूजनम् ॥ ३६ ॥ संपूर्णमन्त्रपाठेन स्वात्मीकारं तु भावयेत् ।
1
पूर्णपूजां भावयन् वै बाह्यपूजां समाचरेत् || ३७ || घुटिकायामार्द्रकं स्यात् स्वात्मी' कारेऽपि विद्यते तत्र पात्रद्वयं देवि न्यूनं नैव तु कारयेत् ॥ ३८ ॥ शक्तिपूजा विना तत्त्वशोधनं संभवेच्छिवें । प्रत्यक्षे तु त्रिपात्रं वै गौणात् गौणतरं भवेत् ॥ ३९ ॥ आनुकूल्ये त्रिपात्रादि नैव कर्तव्यमीश्वर ।
प्रत्यक्ष युग्मपात्रं वै कृत्वा शापमवाप्नुयात् ॥ ४० ॥ क्वचिन्मयैवोपदिष्टः परमापत्तिकालिकः ।
तृतीयभेदं देवेशि प्रोक्तेष्वन्यतमं स्मृतम् ॥ ४१ ॥ वटिका चणपिष्टस्य विजयायुक्तदाकृतिः ।
मूलकं वा महादेवि पलाण्ड्ववधिको वटिः ॥ ४२ ॥
कारोsपि -
-ब२.