________________
दशमः खण्ड:--सर्वसाधारणक्रमः पूजात्रयं जपश्चैव प्रधानं पूजने मतम् । पात्रसंस्था पीठपूजा बलिहोमस्तथैव च ॥ १७ ॥ अर्पणं देहशुद्धिश्च मुख्याझं संप्रकीर्तितम् । शक्तिसामयिका_दि गौणाङ्गमिति कथ्यते ॥ १८ ॥ नित्यकर्मण्यङ्गलोपे न वैगुण्यं तु कर्मणः ।। काम्ये तदेकदेशस्य लोपे वैगुण्यमेव हि ॥ १९ ॥ अङ्गलोपे तु मूलेन तर्पणाष्टकमुच्यते । अष्टोत्तरशतावृत्त्या मुख्याने शृणु पार्वति ॥ २० ॥ शतधा तर्पणं जापः सहस्रं वा स्मृतं शिवे । व्यत्यासे कर्मणोऽप्येवमङ्गाङ्गेषु स्मृतिः सकृत् ॥ २१ ॥ अङ्गं तन्त्रेण वा कुर्यात् कार्यकारणयोर्विना । अन्तरे च न कुर्वीत भिन्नार्थेष्वपि चेश्वरि ॥ २२ ॥ बिन्दुतर्पणव्यत्यासे प्रायश्चित्तं शृणु प्रिये । मुख्याद्गौणार्पणे देवि पुनस्तर्पणमाचरेत् ॥ २३ ॥ मूलाष्टकम्मृतिर्वाऽपि व्युत्क्रमे शृणु पार्वति । देवतां शङ्खतोयेन मूलेनाभ्युक्ष्य वै शिवे ॥ २४ ॥ पुष्पाञ्जलिं समभ्यर्च्य त्रिः सन्तर्प्य च प्रार्थयेत् । पुनर्यथोक्तं सन्तर्प्य जपेदष्टोत्तरं शतम् ॥ २५ ॥ मुख्यगौणविभेदं च शृणु देवेशि तत्त्वतः । मूलदेवीतर्पणात्तु सर्वं गौणं महेश्वरि ।। २६ ॥ ततः परं गुरोः पङ्क्तिं नित्यामण्डलके ततः । आवृतिश्च ततो देवी क्रमाद्गौणं भवेच्छिवे ॥ २७ ॥ एतद्विभेदमज्ञात्वा यः कुर्यात् तर्पणं शिवे । तं भैरवीगणाः क्रुद्धाः विकुर्वन्ति पदे पदे ॥ २८ ॥ नवपात्रे व्यवस्थैव सप्तपात्रेऽपि पार्वति । . पञ्चपात्रेऽपि तुल्या म्यात् त्रिपात्रे मनसा स्मरेत् ॥ २९ ॥
.