________________
परशुरामकल्पसूत्रम् अङ्गेऽपि देवि द्वैविध्यं मुख्यगौणत्वभेदतः । गौणाङ्गलोपे मूलस्य दशधा जपतः शुचिः ॥ ३ ॥ मुख्याङ्गलोपे शतधा अङ्गिलोपे पुनःक्रिया । अङ्गाङ्गिभेदं देवेशि शृणु विस्तरतः शिवे ॥ ४ ॥ जपे षडङ्गन्यासस्तु गौणाझं परिकीर्तितम् । ध्यानमृष्यादिकं पूजा मुख्याङ्गमिति कथ्यते ॥ ५ ॥ सन्ध्यायां मूलदेव्यर्थे जपे चाङ्गित्वमिष्यते । मार्ताण्डवाग्भवाद्यये मुख्याङ्गत्वं प्रकीर्तितम् ।। ६ ।। आकालमङ्गिलोपे तु पुनः कर्म भवेदिह । आपद्यङ्गस्य लोपे तु कालत्यागेऽपि नास्त्यघम् ॥ ७ ॥ सन्ध्याऽन्तरे तु संप्राप्ते शतमष्टोत्तरं जपेत् । आशौचद्वितये देवि प्रधानं मानसं चरेत् ॥ ८ ॥ पूजाऽऽदिकं समानं वै बाह्यमन्येन कारयेत् । क्षयाशौचे देवताया मण्डले न व्रजेच्छिवे ॥ ९ ॥ अज्ञानेन गतश्चेद्वै देवताशापमाप्नुयात् । तद्दोषपरिहारार्थं पुनर्मण्डलमाचरेत् ॥ १० ॥ देवतां पयसा नाप्य मूलातर्पणमाचरेत् ॥ ११ ॥ पञ्चवारं घृतेनैव होमं कुर्याद्वरानने। ब्राह्मणान् भोजयेत् पश्चात् देवताशान्तिमाप्नुयात् ॥ १२ ॥ त्रिरात्रं सन्ध्यया हीनः सहस्रं जपमाचरेत् । अहोरात्रमनश्नन् वै ततः शुद्धो भविष्यति ॥ १३ ॥ अष्टरात्रमसन्ध्यो वै त्रिरात्रोपोषणाजपात् । मासेऽतीते तु देवेशि पतितश्च बहिष्कृतः ॥ १४ ॥ मण्डलाबाह्यगः सर्वकर्मायोग्यो महेश्वरि । एष एव जपे मार्गः मासादूर्ध्व पतत्यधः ॥ १५ ॥ पूजायां शृणु देवेशि भेदमङ्गाङ्गिनोः म्फुटम् । आवृतिर्गुरुनित्याऽर्चासमयाम्नाययोरपि ॥ १६ ॥