________________
दशमः खण्डः-सर्वसाधारणक्रमः
अन्त्येष्टिकौलश्राद्धयोरावश्यकत्वम् . . कौलश्राद्धमपि सूत्रानुसारिणामावश्यकं, अकरणे निन्दाश्रवणात् । यद्यपि त्रिपुरारहस्ये “तथाऽन्येष्वतिदूषितं" इति श्रवणात्--अन्त्येष्टिकौलश्राद्धयोः नातिदोषः श्रूयते, अतिदूषितं नाम पुनः पुनः असकृन्निन्दाश्रवणं, प्रकृते सकृदेव निन्दा श्रूयते, रहस्यनामपाठे निन्दा त्वसकृत् श्रूयते, तद्वदत्राभावात्-सूत्रानुयायिनामनावश्यकमिति प्रतिभाति । अन्यथा अतिदूषितमित्यत्र अतिपदानर्थक्यं स्यात् । तथाऽपि आपस्तम्बादयः स्वसूत्रे अनुक्तं अन्यसूत्रोक्तं अन्यत् किमपि न गृह्णन्ति, भारद्वाजोक्तं अन्त्येष्टिप्रयोगं तु जगृहुः । तत एव ज्ञायते अन्त्येष्टिसंस्कार आवश्यक इति । तद्वदनापीत्युन्नेयम् ॥
किं च अतिदृषितमित्यस्य नासकृन्निन्दाश्रवणमर्थः । किं तु अकरणे महानिष्टफलसाधनत्वप्रतिपादनम् । तच्च प्रकृतेऽप्यस्ति । जन्मप्रभृति उपासनासंपादनं मण्डले प्रवेशार्थम् । मण्डलं नाम पुनरावृत्तिरहितः ब्रह्मलोकादपि वरिष्ठः
ओघत्रयनिवासाधारभूतः स्थानविशेषः । अन्त्येष्टयकरणे तल्लाभाभावे महापुरुषार्थहानिसाधनत्वप्रतिपादनात् अतिदूषितमित्यवश्यं अनुष्ठेयम् । एवमेव श्राद्धेऽपि । इत्यलं भूयसा ॥
प्रायश्चित्तविधिः अथ विहितकर्मसु पुरुषदोषेण अन्यथाभावोऽवश्यंभावी । तदर्थ तत्प्रायश्चित्ताकाङ्क्षायां प्रायश्चित्तं प्रसङ्गाल्लिख्यते । तदुक्तं स्वतन्त्रतन्त्रे त्रयोदशपटलेदेव्युवाच
देवेश श्रोतुमिच्छामि नित्यनैमित्तिकादिषु ।
प्रायश्चित्तं तु सन्ध्याऽऽदिपूजाकर्मसु च स्फुटम् ॥ १ ॥ श्रीभैरव उवाच--
शृणु देवि प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् । अङ्गाङ्गिभेदात् द्वैविध्यं कर्मणः परमेश्वरि ॥ २ ॥