________________
..परशुरामकल्पसूत्रम्
उत्तरापोशनं दत्वा तथा ताम्बूलदक्षिणाः । विश्वान् देवांस्तथा पितॄन् देवतारूपमास्थितान् ॥ १९ ॥ नमः पुरस्तात् पश्चाच्च पार्श्वयोरपि वो नमः । अनेन कौलश्राद्धेन विधिना पितृमुख्यकाः ॥ २० ॥ परमं पदमास्थाय भुञ्जन्त्वेते सुनिर्वताः । परिक्रम्य नमस्कृत्य चैवं पश्चाद्विसर्जयेत् ॥ २१ ॥ यथाऽऽगतं च पितरो गच्छन्त्वस्मान्महामखात् । विश्वैर्देवैश्च सहिताः प्रसन्नाः सन्तु मे चिरम् ॥ २२ ॥ ततः सामयिकान् पूज्य कर्म देव्यै समर्पयेत् ।
इत्येवं कथितो देवि कौलश्राद्धविधिः परः ॥ २३ ॥ इति ॥ अस्यापि संक्षेपेण गूढमर्थ प्रकटयामि । श्राद्ध संक ल्पा नन्तरं ब्राह्मणान् वृत्वा द्वारपूजाऽऽदिसामान्यविशेषाऱ्यापात्रासादनोत्तरं विशेषा पुरतः अग्रभागे देवीविशेषार्घ्यपात्रमध्ये इति निष्कर्षः । विशेषार्घ्यपात्रासादनप्रकारेण विश्वेदे व पात्रं पितृ पात्रं चासादयेत् ॥ ३-४ ॥ ततः सुवासिनीपूजाऽन्तपूजाशेषमनुष्ठाय एकस्मिन् विप्रे चर्यानाथस्वरूपान् विश्वान् देवान् प्रपूजयेत् ॥ ५ ॥ मित्रे श स्वरूपं पितरं षष्टीशस्वरूपं पितामहं ओ[उड्डीशस्वरूपं प्रपितामहं प्रत्येकब्राह्मणपक्षे । एकब्राह्मणपक्षे मित्रेशषष्ठीशोड्डीशरूपान् पितृपितामहप्रपितामहान् इत्या वा ह नं कृत्वा, आ स नं दत्वा, उक्तमन्त्रेण प्रार्थ्य, विहितपात्रम ण्ड ले पादौ प्रक्षाळ्य, सा मा न्या ा द ये दत्वा, आ च मनं दत्वा, दी पान्तं यथाविभवं विश्वान् देवान् पितूंश्च पूजयेत् । पितृपदं देवानामप्युपलक्षकम् ॥ ६–९ ॥ ततः चर्यानाथस्वरूपेभ्यः विश्वेभ्यो देवेभ्यः स्वाहा इति विश्वेदेवपात्रं तद्विप्रस्य अर्पयेत् । एवमेव पित्रादेरपि पात्रसमर्पणम् । ते त्वमन्त्रमेव होमं कुर्युः, होममन्त्रस्य स्वाहाऽन्तस्य श्राद्धकर्ता पूर्वमेव पठितत्वात् । अमन्त्रकहोमनिषेधशास्त्रं सामयिकप्रकरणस्थं तत्रैव विश्रान्तम् , नात्र प्रवर्तते । वस्तुतोऽत्र स्वाहाऽन्तमन्त्रपाठात् नामन्त्रकं हवनम् । पाद्ये देवस्य चतुरश्रं पितॄणां वृत्तमुक्तं प्राक् । तत्तद्देवभोजनपात्राध: मण्ड ल म् ॥ १०-१४ ॥ पितृ स्था ने चोत्सृजेत् इति चकारेण विश्वेदेवपात्रस्याप्युत्सर्गः सूचितः । तत्र पितृस्थाने विश्वेदेवपदप्रक्षेपः ॥ १५ ॥ शेषं स्पष्टम् ॥ १६-२३ ॥ ...