________________
दशमः खण्डः—– सर्वसाधारणक्रमः
मित्रेशादिस्वरूपांश्च पितॄन् संपूजयेत् क्रमात् ।
व्यष्ट्या वाऽथ समष्ट्या वा पूर्वोत्तरमुखान् शिवे ॥ ६ ॥ आसनावाहने कृत्वा प्रार्थयेत्तु कृताञ्जलिः ।
विश्वेदेवा: स्वागतं वो यज्ञेऽस्मिन् स्थीयतां क्षणम् ॥ ७ ॥ सावधानेन मनसा स्वीकुर्वन्तु सभाजनम् । चतुरश्रे तथा वृत्ते मण्डले पूज्य पादयोः ॥ ८ ॥ क्षाळनं वाऽथ सामान्यादर्थ्यादर्ध्य विनिक्षिपेत् । आचामयेत्तान् वस्त्रादिदीपान्तेन पितृन् यजेत् ॥ ९ ॥ स्वाहाऽन्तनाम्ना तत्पात्रात् तेभ्यः पात्रं प्रकल्पयेत् । पूर्ववन्मण्डलं कृत्वा पूज्य भोजनपात्रकम् ॥ १० ॥ परिवेष्याभ्यक्ष्य तद्वै दत्वा हस्ते तथोदकम् ।
संविन्मये महापात्रे आनन्दमयभोज्यकम् ॥ ११ ॥ भोक्ता त्वं पुरुषः साक्षी महाशक्तिर्महेश्वरः । सर्वमन्नं शक्तिमयं भोक्ता साक्षात् परः स्वयम् ॥ १२ ॥ तस्मात् सर्व शिवः : साक्षात् भोक्ता दाता च भोज्यकम् । विश्वेदेवा देवता नो भुञ्जन्त्वत्र मखे मम ॥ १३ ॥ यावच्छक्यं तावदिह भोक्तव्यं स्वस्थमानसैः । पेयं खाद्यं भक्ष्यभोज्यं सर्वं वस्तु समर्पितम् ॥ १४ ॥ पितॄणां परमानन्दहेतवे तद्भवेच्छिवम् । इत्येवं तोयमुत्सृज्य पितृस्थानेऽपि चोत्सृजेत् ॥ १५ ॥ तत आपोशनं दत्वा यथेष्टं भोजयेत् ततः । यथासंभवपक्काद्यैः तृप्ता यूयं भविष्यथ ॥ १६ ॥ कुलद्रव्यैश्चर्वणैश्च पितॄणां शान्तिहेतवे । प्राथ्यैवं भोजनस्यान्ते प्रार्थयेत् पुनरेवच ॥ १७ ॥ विश्वेदेवाश्च पितरस्तृप्ताश्चास्मिन् महामखे । सर्वे समिष्टं संपन्नं भवत्वत्र यथेप्सितम् ॥ १८ ॥
ફ્