________________
३४८
परशुरामकल्पसूत्रम् . वीरपात्रासादनं तद्दक्षिणतः । अत्र ब्राह्मणपञ्चकं सति संभवे । अशक्तौ त्रयं... विश्वेदेवार्थमेकः, पितामहाद्यर्थमेकः, वीरार्थमेकः । कौळश्राद्धवत् पात्रहवनम् । वीरस्यापि कोळश्राद्धे “संविन्मये' इत्यारभ्य " तद्भवेच्छिवं" इत्यन्तेन विहितो यो जलोत्सर्गः तदनन्तरं . अद्यप्रभृति" मन्त्रपठने वी र पात्र स्थं कुलद्रव्यं पितृ पात्रे क्षिपेत् ॥ ३३-३४ ॥ वीरस्य प्रथमहवनं दीपान्तपूजोत्तरं, पात्रसमर्पणमपि
अमुकाय वीराय स्वाहेति । तदूर्ध्व वीरपदं त्यक्त्वा मित्रेशरूपाय स्वाहेति पठेत् । पितामहे षष्टीशरूपाय प्रपितामहे ओ[उड्डीशरूपाय, वृद्धप्रपितामहे मित्रेश-षष्टीश
ओ[उ]ड्डीशरूपाय इति पठेत् । क्रमस्तु पूर्ववत् । अस्मिन् श्राद्धे इदं द्वितीयं हवनम् ॥ ३५ ॥ शेषं इतः परं कौलश्राद्धवदासमाप्ति ज्ञेयम् ॥ ३६-३७ ।।
कौलश्राद्धविधिः अथ कौलश्राद्धधर्माणां अत्रातिदिष्टत्वात् तज्ज्ञानाय कौलश्राद्धविधिरुच्यते । सोऽपि रुद्रयामळान्तर्गतदेवीरहस्ये पञ्चषष्टितमे पटले अस्ति---
अधुना श्रोतुमिच्छामि कौलश्राद्धविधि तथा । इति पार्वतीप्रश्ने ईश्वर उवाच----
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि । यस्य 'स्मरणमात्रेण देवताप्रीतिमाप्नुयात् ॥ १ ॥ कौलश्राद्धमकृत्वा तु चान्यैः श्राद्धसहस्रकैः । नैव तृप्तिर्भवेद्देवि पितॄणां परमेश्वरि ॥ २ ॥ मृताहे तद्वितीये वा कृतनित्यक्रियः शुचिः । चतुरो ब्राह्मणान् द्वौ वा दीक्षायुक्तान् निमन्त्रयेत् ॥ ३ ॥ संकल्प्याथ विशेषार्थ्यपुरतः पात्रयुग्मकम् ।. विश्वेषां चैव देवानां पितृणां च क्रमाच्छिवे ॥ ४ ॥ आवृति पूज्य नैवेद्यं कृत्वा शक्तिं प्रपूज्य च । चर्यानाथस्वरूपान् वै विश्वान् देवांस्तु पूजयेत् ॥ ५ ॥
श्रवण-श्री.