________________
दशमः खण्ड:-सर्वसाधारणक्रमः
३४७ अथास्यैव संक्षेपेण भावं. दर्शयामि----दीक्षिता . मृता बाह्यसंस्कारविहीन वीरदूताः, बाह्यसंस्कारेण संस्कृता वीराः, बाह्यसंस्कारेण संस्कृता. उक्तसंस्कारसंस्कृता मण्डलान्तःप्रविष्टा इति तन्त्रशास्त्रप्रसिद्धिः । बाह्यसंस्कारमन्तरा नेदं कर्म ॥ १-३ ॥ सूत का न्ते सपिण्डीकरणान्ते, तदुत्तरमेव वीरत्वप्राप्तेः ॥ ४-८ ॥ आचार्यब्रह्मोभयवरणाशक्तौ आचार्यस्यैव वरणमित्याह--शक्ति त इति ॥ ९ ॥ नैवेद्यान्ते आवरणपूजोत्तरनैवेद्यान्ते ॥ १० ॥ श्रीचक्रदेवताऽऽवाहनोत्तरं यथाविभवं पूजा कार्येत्याह-शक्ति तो य जे दि ति । तत्र निर्मितश्रीयन्त्रे । कुश पुत्त लि कां कुशपुरुषम् ॥ ११ ॥ नाम्ना अमुकानन्दनाथं वीरं नमः । अज्ञाने गगनानन्दनाथं वीरमिति ॥ १२-१४ ॥ तन्मात्रा क र्षिणीः शब्दाकर्षिण्यादयः पञ्च श्रोत्रा दिपञ्चसु ज्ञानेन्द्रियेषु । बीज तः काळीबीजोत्तरं, की काळ्यै नम इति ॥ १५ ॥ अङ्कुशा त् क्रों एतदुत्तरं मर्म कृ न्तिन्यै नम इति । आं ह्रीं प्राणा क र्षि ण्यै नम इति ॥ १६ ॥ श्राव्य मन्त्र श्च कालधर्ममित्यादिः ॥ १७–२१ ॥ तन्ना ना अमुकानन्दनाथाय वीराय नमः । षोडशपञ्चान्यतमोपचारैरभ्यर्च्य अन्ते देवतानाम द्वितीयान्तं तर्पयामीति पठित्वा विशेषाध्ये ण त र्पयेत् । वेद्याः पार्थे होमप्रकरणोक्तविधिना विवाहान्ते मरणसंस्कारेणापि संस्कृत म निं संस्था प्य यन्त्रात् कल्पितयन्त्रस्थां अग्नौ देवी मा वा ह ये त् ॥ २२ ॥ संपूज्य पञ्चोपचारैः तां सन्त मे ॥ २३ ॥ वृते न सुचं संपूर्य हविषः स्थाने स्रुच्येव वीरं नि क्षि प्य ॥ २४-२९ ॥ तत्सं ख़्य या समित्संख्यया । मूलेनैव हो म त न्त्रं स मा प येत् इति । अनेन होमप्रकरणोक्तोत्तराङ्गप्राप्तिः ॥ ३० ॥ कु र्या च्छ्राद्ध मिति नाम्ना कोळश्राद्धीययावद्धर्मातिदेशः । म ण्ड ल मे ळ न श्राद्धमित्यस्य नाम । अत्र विश्वेदेवा वीराः । वीरात् प्राक्तनास्त्रयः पुरुषाश्च देवताः । वीरात् प्राक् पुरुषा अपि तान्त्रिकान्त्येष्टिसंस्कृता यदि स्युः, तर्हि मित्रेशादिस्वरूपताप्राप्तिसिद्धये एकैकोद्देशेन मण्डलप्रवेशलाभाय अन्त्येष्टिप्रतिनिधिभूतं अयुतं मूलं जप्त्वा पश्चात् वीरं संस्कृत्य मण्डलमेळनश्राद्धं कुर्यात् । दीक्षितवंशग्रहणात् अदीक्षितस्यापि तद्वंश्यस्य मुख्यं प्रतिनिधिरूपं वा इदं कर्म भवति ॥ ३१ ॥ अथ कौलश्राद्धाद्यो विशेषः तमाह-- वी र पात्र मि त्या दिना । वीर स्य पूजा प्रत्य ङ्मु ख स्य पूजनं विशेषः ॥ ३२ ॥ वीरस्य पाद्यमण्डलं त्रिकोणं, तथा तत्पात्रासादनमण्डलमपि । पितृपात्रासादनानन्तरं