Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 388
________________ ३६४ फलमाह- - शरीर त्याग इति । एतदनुष्ठातृभिन्नानां काश्यां देहत्यागे मुक्ति:, कीकटे नरकः, पुण्यदेशे स्वर्गः, इति फलतारतम्यम् । अस्य तु श्वपचः चण्डालः तगृह का श्योर्न किंचिदन्तरम् । अत्र हेतुमाह जीवन्मुक्त इति । यतोऽयं जीवन्नेव मुक्तः अतोऽविद्यालेशाभावात् स्वर्गनरकयोरप्राप्तिः, कारणाभावे कार्यासंभवात्, स्वर्गनरकयोरविद्याकार्यत्वात् । नापि मुक्ति: काशीमरणेन भवितुमर्हति तस्य जीवत एव लब्धत्वात् । अतः अयं देहः यत्र वचन वा पतितः न ततो दुःखं सुखं वा भवितुमर्हति । अतो द्वयोर्नान्तरमिति भावः । एतेन एतत्सदृशं परमपुरुषार्थसाधनं नान्यदिति भावः । प्रथमखण्ड श्रुतं फलं दीक्षाया एव । एवं तत्तत्करणावसाने दर्शितं फलं तस्य तस्यैव, इदं तु विशिष्टानुष्ठानस्यैव इति बोध्यम् ॥ ८२ ॥ परशुरामकल्पसूत्रम् अध्येतृप्रशंसा एवं दशखण्डैर्विहितानुष्ठानकर्तारं स्तुत्वा दशखण्डाध्येतारं स्तौति य इमां दशखण्डीं महोपनिषदं महात्रैपुरसिद्धान्तसर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति हि श्रूयते इत्युपनिषत् इति शिवम् ॥ ८३ ॥ इमां पूर्वोक्तां दशखण्डीं महोपनिष ढं दशखण्डसमुदायात्मिकाम् । उपनिषदिति ब्रह्मस्वरूपप्रतिपादकवेदस्य संज्ञा । तत्र ब्रह्मप्रतिपादनं साक्षात् परंपरया चेति द्विविधम् । तत्र साक्षात्प्रतिपादिका महोपनिषत् । अस्य साक्षात्प्रतिपादकश्रुत्यर्थानुवादकत्वात् महोपनिषत्त्वं औपचारिकम् । एतेन केवलब्रह्मप्रापकशास्त्ररूपत्वात् परमपुरुषार्थसाधनमेतदध्ययनमिति ध्वनितम् | त्रै पुर सिद्धान्त मिति-— त्रिभ्यः सृष्टिस्थितिलयेभ्यः पुरा पूर्ववर्तिनी नित्येति यावत् सा त्रिपुरेति । तदुक्तं त्रैपुरसिद्धान्ते " त्रिभ्यः पुरा त्रिपुरा " इति । काळिपुराणेऽपि --

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413