Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
३७०
परशुरामकल्पसूत्रम्
अथ नवग्रहयन्तं व्याख्यास्यामः । नवकोष्ठान् विधाय, नवसु कोणेषु वृत्तत्रयं विधाय, नवकर्णिकासु नवकोष्ठान् विलिख्य, नवसु कोष्ठेषु मध्यकोष्ठेषु मध्यकोष्ठवृत्तत्रयं कर्णिकास्थानवकोष्ठं मध्यकोष्ठे मकारसहितं प्रणवं विलिख्य, शिष्टेष्वष्टसु कोष्ठेषु अकारायृकारान्तानष्टस्वरान् विलिख्य, अन्तर्वृत्तान्तराळे मकारसहितान् षोडशस्वरान् लिखित्वा, बहिर्वृत्तान्तराळे अकारादिक्षकारान्तान् मातृकार्णान् विलिखेत् ॥ ४॥
एवं भास्करमण्डलं मध्ये कृत्वा पूर्वकोष्ठवृत्तत्रयकर्णिकास्थितनवसु कोष्ठेषु मध्यकोष्ठे लुकारगर्भ प्रणवं विलिख्य, पूर्वाष्टसु कोष्ठेषु लृकारादिविसर्गान्तानष्टस्वरांश्च विलिख्य, अन्तर्वृत्तान्तराळे लूकारसहितान् षोडशस्वरान् संलिख्य, बाह्यवृत्तान्तराळे अकारादिक्षकारान्तान् लिखेत् ॥ ५ ॥
एवं चन्द्रमण्डलं विधाय, अग्निस्थितवृत्तत्रयकर्णिकानवकोष्ठमध्यकोष्ठे प्रणवगर्भककारं विलिख्य, ईशानकोष्ठादिराक्षसकोष्ठान्तं कवर्गं विलिख्य, पश्चिमकोष्ठादि सोमकोष्टान्तकोष्ठये भौमायेति वर्णत्रयं विलिख्य, अन्तर्वृत्तान्तराळे ककारसहितान् षोडशस्वरान् संलिख्य, बाह्यवृत्तान्तराळवीथ्यां मातृकां लिखेत् । एवं भौममण्डलं विधाय, बुधमण्डलं लिखेत् ॥ ६॥

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413