Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 386
________________ . परशुरामकल्पसूत्रम् . शुद्धयादिचर्वणोन्मिश्रं पूर्वसङ्ख्याऽनुरोधतः । .. मयूराण्डमितो ग्रासः सङ्ख्यया तदपः पिबेत् ॥ पश्चात् जलं पिबेत् देवि जपेन्मूलशतत्रयम् । . रात्रौ स्थण्डिलशायी च ब्रह्मचर्ययुतः सदा ॥ पूजाऽन्ते भोजयेत् पश्चात् यथाविभवमम्बिके । एवं त्रिरात्रं निवर्त्य चतुर्थे पूजयेत् गुरुम् ।। यथाशक्ति ततो देवि तदाज्ञावशतः शिवे । व्रतं निवेदयेत् देव्यै ब्राह्मणान् भोजयेत् ततः ॥ य एवमाचरेत् देवि तस्य पापक्षयो भवेत् ।। इति तन्त्रान्तरोक्तं महासान्तपनं व्रतम् ।। ६७ ॥ नित्यपूजोक्तान्येव प्रायश्चित्तानि स्थलान्तरे अतिदिशति---दीक्षा ऽऽदि प्वप्ये व मे वे ति । आदि पदेन नैमित्तिककाम्यपूजापरिग्रहः । दीपोप घा ते दीपनाशे पुनर्म ण्ड ल मा चरेत् इति । यथा पूर्व मण्डलं द्वारपूजाऽऽदिना देशपरिचितिं कृत्वा देवयजनभूमिं संपाद्य यागः संपादितः, तथा तत्समाप्तौ तथैव दीपोपघातनिमित्तं पुनर्मण्डलपूजां करिष्ये इति संकल्प्य मण्डलोद्वासनान्तं पुनर्यजेत् । श्रौते कर्मण्यपि परिश्रयणादेरिदमेव फलं श्रुतं अर्थवादे “परिश्रयत्यन्तर्हितो हि देवलोको मनुष्यलोकात्" इत्यादिना । अत्रापि द्वारपूजनमेव परिश्रयणं मण्डलकरणम् । यद्वा ---मण्डललक्षणमुक्तं योगिनीतन्त्रे--- कुमार्या वटुकेनापि सुवासिन्या द्वयेन च । पञ्चसामयिकैश्चैव युक्तं मण्डलमुच्यते । एतन्न्यूनं तु देवेशि केवलं पूजनं स्मृतम् ॥ इति । ईदृशगुणविशिष्टं वा पूजनं मण्डलमाचरेदित्यनेन ग्राह्यम् । दीपघातेऽपि कश्चन विशेषो बृहद्वामकेश्वरतन्त्रे

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413