Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 389
________________ देशमः खण्डः- -सर्वसाधारणक्रमः त्रिकोणं मण्डलं चास्य भूपुरं च त्रिरेखकम् । मन्त्रोऽपि त्र्यक्षरः प्रोक्तः तथा रूपत्रयं पुनः ॥ त्रिविधा कुण्डलीशक्तिः त्रिदेवानां च सृष्टये । सर्वे त्रयं त्रयं यस्मात् तस्मात् तत्रिपुरा मता ॥ इति ॥ त्रिपुरारहस्येऽस्य पदस्य निरुक्तयो बयः सन्ति, ग्रन्थविस्तरभयात् अतिप्रयोजनाभावाच्च न लिख्यन्ते । त्रिपुरासंबन्धी त्रै पुरः स चासौ सिद्धान्तश्च तस्मिन् सर्वस्व भूतां दनो नवनीतवत् सारभूतां तां योऽधीते सः सर्वयज्ञे पु गणपत्यादिपराऽन्तेषु यज्ञेषु यष्टा भवति । क्रियाऽननुष्ठानेऽप्यध्ययनमात्रेणैव तावदनुष्ठानफलं भवतीत्यर्थः । एतस्मिन्नर्थे आरण्यकश्रुतिं प्रमाणत्वेनोपन्यस्यति – यं यं क्रतुमधीते इति श्रूयते इत्यन्तेन । इत्युपनिषदि ति उपनिषत्प्रतिपादकमिति उपसंहारद्योतकम्, इतीदं ते मयाऽऽख्यातं दिव्यं नाम्नां शतत्रयम् । इत्येतन्नामसाहस्रं कथितं ते घटोद्भव ॥ इत्यादिस्थले तथा दृष्टत्वात् । शिव मिति कल्याणवाचि ॥ खण्डादिपरिपठनम् आपस्तम्बादिसूत्रवत् अत्रापि सूत्ररूपत्वं " अथातो दीक्षां व्याख्यास्यामः इत्यनेन ज्ञापितम् । अतः उपसंहारवेळायामपि तत्संप्रदायेन वैपरीत्येन खण्डादीन् परिपठति - अथातः सर्वेषां मन्त्राणां, अथ स्वेष्टमन्त्रस्य, इति विधिवत् इत्थं साङ्गां, इयमेव महती विद्या, अथ प्राथमिके चतुरस्रे, अथ हृच्चक्रस्थितां, एवं गणपतिमिष्ट्वा, इत्थं सद्गुरोः, अथातो दीक्षां व्याख्यास्यामः । अथ, एवं, अथ, इत्थं, अथ स्वेष्टेति पञ्च ॥ ८४ ॥ ३६५ " 99

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413