Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 382
________________ ३५८ परशुरामकल्पसूत्रम् कन्याया नास्ति संस्कारः विधवां तु परित्यजेत् । मातरं गुरुपत्नी च ज्येष्ठपत्नीमृते शिवे ॥ ८३ ॥ बालोपदेशिनां पात्रत्रितयं तत्त्वशोधनम् । पात्रं दक्षकरे गृह्य वामहस्तेन तर्पणम् ॥ ८४ ॥ महावाक्यान्तयोग्यानां तत्त्वपात्रचतुष्टयम् । तर्पणं पूजनं च स्यात् पादुकाऽन्ते तु पूजनम् ॥ ८५ ॥ आत्मविद्याशिवाख्यादितत्त्वपात्राणि वै शिवे । समष्टिरथपूर्ण च सांकय त्रितये भवेत् ॥ ८६ ॥ समष्टिपूर्णके देवि सांकर्य बहुदोषकृत् । तस्मात् प्रक्षाळ्य देवेशि समष्टिं पूर्णपात्रकम् ॥ ८७ ॥ स्वीकुर्यादन्यथा देवि जपेदष्टसहस्रकम् । आत्मतत्त्वं शक्तिशेषं सर्वेषां देवि संमतम् ॥ ८८ ॥ पञ्चाम्नायोर्ध्वगानां तु पश्चाद्वा पञ्चपात्रतः । प्रथमं शक्तिशेषं स्यात् द्वितीयादित्रयं शिवे ॥ ८९ ॥ वीरोच्छिष्टं तु ज्येष्ठस्य अन्यथा पापमाप्नुयात् । गुरोस्तु सर्व संग्राह्यं शक्तिशेषादनन्तरम् ॥ ९० ॥ स्वशेषं नैव शक्त्यै तु देयं शिष्यामृते शिवे । अत्र प्रमादो यदि चेजपेदष्टसहस्रकम् ॥ ९१ ॥ आत्मशेषं तु ज्येष्ठेषु दत्वा व्यहमुपोषणम् । उभयोरपि तुल्यं स्यात् प्रायश्चित्तं वरानने ॥ ९२ ॥ . अभुक्त्वैव तु तत्त्वानां शोधनं त्वाचरेच्छिवे । पूजनं चापि देवेशि अन्यथा पतितो भवेत् ॥ ९३ ॥ गुर्वादीनां यथा चाज्ञा स्वात्मतत्त्वं तु शोधयेत् ।। सद्यः काले त्वयं पक्षः ज्ञात्वा भुक्तो बहिष्कृतः ॥ ९४ ॥ भुक्त्वा तत्त्वं शोध्य देवि जपेदयुतसंख्यकम् । अनानेऽप्येवमेव स्यादशक्तौ गौणमाचरेत् ॥ ९५ ॥

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413