Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
दशमः खण्डः —सर्वसाधारणक्रमः
३३३
समर्चाऽन्ते शक्तिपूजाऽन्ते । अयं पञ्चमद्वितीयप्रकार : स्वयोषित्स्वेव । तदुक्तं
स्वतन्त्रतन्त्रे
आद्यं तत्र कलौ देवि त्रिसहस्रान्तमिष्यते ।
द्वितीयं तु भवेत् देवि स्वयोषित्सु सुरेश्वरि ॥ इति ॥
पञ्चमस्य तृतीयप्रकारो रहस्यार्णवे -
-
अथवा शिष्यभूतां वा चान्यां वाऽपि महेश्वरि । प्रार्थितो वा तथा स्वेन प्रार्थितां वाऽपि शंकरि ॥ संपूजयित्वा पूजाऽन्ते भोगपात्रं निवेद्य च । मनसा तां समागच्छन् देवतायै निवेदयेत् ॥ इति ॥
मनसा तया कृतं संभोगं देव्यै समर्पयेत् इत्यर्थः । एवं त्रिप्रकारं मुख्यम् । अमीषामभावे तत्प्रतिनिधिरुक्तो योगिनीतन्त्रे
रक्तं तु करवीरं वै तथा कृष्णाऽपराजिता ।
एतत् प्रोक्तं लिङ्गयोन्योः पुष्पं तत्र तु योजयेत् ॥ इति ॥
परमानन्दतन्त्रे
कुसुमे लिङ्गयोन्योर्वा सकाश्मीरं च चन्दनम् ॥ इति ॥
शुकस्थाने चन्दनं शोणितस्थाने काश्मीरं योजयित्वा तत्र मैथुनबुद्धिं विभाव्य श्रीदेव्यै अर्पणं कुर्यात् इति भावः । अयं प्रकारोऽपि सामयिकपूजाऽन्ते शक्तिपूजाऽन्ते वा । अर्घ्यपात्रे पञ्चमप्रतिनिधिमेळनमपि योगिपरम् । तेषामपि कलौ त्रिसहस्रवर्षपर्यन्तं ज्ञेयम् ॥
1
एवमुक्तो मपञ्चकप्रकारः ॥ ६३ ॥
अवशिष्टकुलाचारधर्माः
अथ पूर्वोक्तावशिष्टाः ये कुलाचारधर्माः तानाह -
सर्वत्र वचनपूर्वं प्रवृत्तिः ॥ ६४ ॥
1
1

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413