Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 363
________________ ३३९ दशमः खण्डः-सर्वसाधारणक्रमः स्वेस्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः ॥ इति ।। अधिकारिभेदेन गुणदोषौ व्यवस्थितौ न वस्तुनि नियतौ इति तच्छ्लोकभावः ॥ ७० ॥ धर्मान्तरमाह--- गुरुप्रगुरुसन्निपाते प्रगुरोः प्रथमं प्रणतिः तदने तदनुरोधेन तन्नतिवर्जनम् ॥ ७१ ॥ गुरुः प्रसिद्धः । प्र गुरुः गुरोः गुरुः । तयोः स न्नि पाते एकत्र वासे प्रगु रोः प्रथमं नमस्कारः कार्यः । यावत्पर्यन्तं प्रगुरुसन्निधौ गुरुस्तिष्ठति तावत्पर्यन्तं तं गुरुं न नमेत् , नमस्कारः गुरोः न कार्यः इति भावः । प्रगुरो र नु रोधे नै व तिष्ठेत् ॥ ___ ननु प्रथमं नतिः इत्यनेन नमस्कारानुवादेन प्राथम्यं विधीयते ?, उत " वषट्कर्तुः प्रथमभक्षः' इतिवत् क्रमविशिष्टं नमनं विधीयते ? नाद्यः, उभयोः नतिप्राप्तौ कस्य प्रथमं इति क्रमाकाङ्क्षायां प्रकृते गुरुनमननिषेधे परिशिष्टप्रगुरुनतो क्रमाकाङ्क्षाऽभावात् प्रथममित्यस्य वैय्यर्थ्यापत्तेः । न द्वितीयः, दृष्टान्तवैषम्यात् । तथा हि वषट्कर्तुरित्यत्र भक्षस्य समासघटकत्वेन समासमध्ये अर्धेनानुवाद: अर्धन विधिः न संभवति इति गत्यभावात् विशिष्टं अपूर्व विधीयते इत्युक्तम् , इह तथात्वाभावात् ॥ वृद्धान्नमस्कुर्यात् इत्यनेन प्राप्तानुवादसंभवे विशिष्टविधिकल्पनायाः असंभवात इति चेत्-न । सूत्रे नतिवर्जनं इत्यनेन न नतिसामान्यं निषिध्यते, किं तर्हि कायिकं दण्डवन्नमनं निषिध्यते । मानसं गुरुनमनं भवत्येव ॥ कथं सामान्येन श्रुतस्य नतिवर्जनं इत्यस्य सङ्कोचः प्रमाणमन्तरेति चेत्न वयं स्वेच्छया संकोचं कुर्मः, किं तु सप्रमाणम् । तदुक्तं परमानन्दतन्त्रे गुरोर्गुरौ समीपस्थे प्रगुरुं पूजयेच्छिवे । गुरोः पूजाऽऽदिकं सर्व मनसैव प्रकल्पयेत् ॥ इति ॥ अत्र आदिपदेन नमस्कारो ग्राह्यः ॥

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413