________________
३३९
दशमः खण्डः-सर्वसाधारणक्रमः स्वेस्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।
विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः ॥ इति ।। अधिकारिभेदेन गुणदोषौ व्यवस्थितौ न वस्तुनि नियतौ इति तच्छ्लोकभावः ॥ ७० ॥
धर्मान्तरमाह---
गुरुप्रगुरुसन्निपाते प्रगुरोः प्रथमं प्रणतिः तदने तदनुरोधेन तन्नतिवर्जनम् ॥ ७१ ॥
गुरुः प्रसिद्धः । प्र गुरुः गुरोः गुरुः । तयोः स न्नि पाते एकत्र वासे प्रगु रोः प्रथमं नमस्कारः कार्यः । यावत्पर्यन्तं प्रगुरुसन्निधौ गुरुस्तिष्ठति तावत्पर्यन्तं तं गुरुं न नमेत् , नमस्कारः गुरोः न कार्यः इति भावः । प्रगुरो र नु रोधे नै व तिष्ठेत् ॥
___ ननु प्रथमं नतिः इत्यनेन नमस्कारानुवादेन प्राथम्यं विधीयते ?, उत " वषट्कर्तुः प्रथमभक्षः' इतिवत् क्रमविशिष्टं नमनं विधीयते ? नाद्यः, उभयोः नतिप्राप्तौ कस्य प्रथमं इति क्रमाकाङ्क्षायां प्रकृते गुरुनमननिषेधे परिशिष्टप्रगुरुनतो क्रमाकाङ्क्षाऽभावात् प्रथममित्यस्य वैय्यर्थ्यापत्तेः । न द्वितीयः, दृष्टान्तवैषम्यात् । तथा हि वषट्कर्तुरित्यत्र भक्षस्य समासघटकत्वेन समासमध्ये अर्धेनानुवाद: अर्धन विधिः न संभवति इति गत्यभावात् विशिष्टं अपूर्व विधीयते इत्युक्तम् , इह तथात्वाभावात् ॥
वृद्धान्नमस्कुर्यात् इत्यनेन प्राप्तानुवादसंभवे विशिष्टविधिकल्पनायाः असंभवात इति चेत्-न । सूत्रे नतिवर्जनं इत्यनेन न नतिसामान्यं निषिध्यते, किं तर्हि कायिकं दण्डवन्नमनं निषिध्यते । मानसं गुरुनमनं भवत्येव ॥
कथं सामान्येन श्रुतस्य नतिवर्जनं इत्यस्य सङ्कोचः प्रमाणमन्तरेति चेत्न वयं स्वेच्छया संकोचं कुर्मः, किं तु सप्रमाणम् । तदुक्तं परमानन्दतन्त्रे
गुरोर्गुरौ समीपस्थे प्रगुरुं पूजयेच्छिवे ।
गुरोः पूजाऽऽदिकं सर्व मनसैव प्रकल्पयेत् ॥ इति ॥ अत्र आदिपदेन नमस्कारो ग्राह्यः ॥