________________
परशुरामकल्पसूत्रम् तत्र आदौ प्रगुरोः कायिको नमस्कारः, गुरोश्च मानसः । द्वयोः प्राप्तौ आदौ किं कार्य इति जिज्ञासायां तत्पूरकतया प्रथममिति पदस्य सार्थक्यसंभवात् केवलक्रममात्रविधायकमिदं, न विशिष्टापूर्वविधिः । तथा च उभयसन्निपाते प्रगुरुं दण्डवत् प्रथमं प्रणम्य गुरुं मनसा प्रणमेत् इति फलितम् ॥
अत्र विधौ निषेधे च नतिपदेन पूजासामान्य लक्ष्यते. पूर्वलिखितपरमानन्दतन्त्रवचनात् । एवं गुरुप्रगुरुपदं प्रगुरुपूर्वपरंपरासन्निपातेऽपि तुल्यत्वलक्षकम् ,
गुरूणां सन्निपाते तु सर्वाद्यं तत्र पूजयेत् ।। इति योगिनीतन्त्रवचनात् ॥ ७१ ॥
धर्मान्तरमाह
अभ्यहितेष्वपराङ्मुख्यम् ॥ ७२ ॥
अभ्य हि ते षु श्रेष्ठेषु । श्रेष्ठत्वं चात्र ज्ञानाधिक्येन ग्राह्यम् । अपराङ्मु ख्यं औदासीन्याभावः । तेन मम किं कार्य इति औदासीन्यं न कार्यम् । स्वापेक्षया ज्ञानाधिक्यात् ज्ञेयांशं तस्मादवगछेत् ॥ ७२ ॥
धर्मान्तरमाह ---
मुख्यतया प्रकाशविभावना ॥ ७३ ॥ .
प्र का शः परशिवः तत्त्वातीतः. यदुपनिषत्प्रतिपाद्यं ब्रह्मेति व्यवह्वियते सः.. तस्य विभा व ना मुख्य त या सकलशास्त्राभ्यासफलमिति जानीयादित्यर्थः । तादृशभावनासिद्धयुपायमेव सर्व शास्त्रं ब्रूते तदन्यदफलमिति ब्रूते इति तत्त्वार्थ जानीयादिति सूत्ररहम्यतात्पर्य ज्ञेयम् ॥ ७३ ॥
धर्मान्तरमाह
अधिजिगमिषा शरीरार्थासूनां गुरवे धारणम् ॥७४॥
अत्रापि पूर्वसूत्रात् मुख्यतयेत्यनुषज्यते । अधि जि ग मिषा यत्र क्वचित् कार्योद्देशेन गमनेच्छा । सा द्विप्रकारा, स्वार्था गुर्वर्था च । तत्र द्वयोः सन्निपाते