________________
३४१
दशमः खण्डः---सर्वसाधारणक्रमः मुख्यतया गुर्वर्थ या जिगमिषा तदनुरोधेन स्वार्थजिगमिषां साधयेत् । एवं शरीर धारणं, अर्थ स्य द्रव्यस्य धा र णं प्राण धा र णं च गुर्वर्थ मुख्यं, स्वार्थ गौणम् । यदि स्वशरीरपातेन गुरोहितं भवति तर्हि देहं पातयेत् , न तु स्वोपभोगार्थ शरीरधारणं कुर्यात् इति भावः । अर्थप्राणयोरप्येवमेव ज्ञेयम् ॥ ७४ ॥
धर्मान्तरमाह
एतदुक्तकरणम् ॥ ७५॥ ए त दुक्तं गुरूक्तं नीचकार्यमपि अभिमानमुत्सृज्य कार्यम् ॥ ७५ ॥
अपरीक्षणं तद्वचने व्यवस्था ॥ ७६ ॥
त द्वच ने गुरुलक्षणविशिष्टगुरुवचनं स्वबुद्धया न परीक्ष ये त् , सदसवेति न विचारयेत् । व्यवस्था अयं सर्वतन्त्रार्थवित् अन्यथा न वदिप्यति, किं तु शास्त्रयुक्तमेव वदिष्यति इति निश्चयं कुर्यात् ॥ ७६ ॥
सर्वथा सत्यवचनम् ॥ ७७ ॥
सर्वथा सङ्कटेऽपि । यद्वा---सर्वथा सहसा सङ्कटमन्तरेत्यर्थः । तेन सङ्कटे विवाहादौ अनृताभ्यनुज्ञा स्मृतिप्राप्ता न बाधिता ज्ञेया ॥ ७७ ॥
परदारधनेष्वनासक्तिः ॥ ७८॥ . स्पष्टम् ॥ ७८ ॥ धर्मान्तरमाह
स्वस्तुतिपरनिन्दामर्मविरुद्धवचनपरिहासधिक्काराक्रोशत्रासनवर्जनम् ॥ ७९ ॥
स्वस्तु ति पर निन्दे प्रसिद्धे । “द्वन्द्वान्ते श्रूयमाणं प्रत्येकं संबध्यते” इति न्यायेन विरुद्धपदोत्तरवृत्तिवचनशब्दस्य स्तुतौ निन्दायां मर्मणि चान्वयः । इत्थं च स्तुतिवचनं निन्दावचनं मर्म वचनं विरु द्ध व चनं चेति फलितम् । मर्मवचनं