SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३४२ परशुरामकल्पसूत्रम् गूढदोषप्रकाशकशब्दः । विरुद्धवचनं तव मरणं भूयात् इत्यादिरूपं श्रवणकटुवचः । परिहा सो हेळनं, दरिद्रं दृष्ट्वा त्वं महाराजः तव किङ्कराः वयं स्मः इत्याद्याक्षेपरूपम् । धि का र स्तु तुच्छीकरणम् । आ को शः रोदनादि । त्रास नं परस्य भयजनकं, इदानीं तव शिरश्छेदनं करोमि इत्यादिरूपम् । उक्तानां अमीषां वर्जनं कार्यम् ॥ ७९ ॥ एवं सामयिकधर्मेषु अत्यन्तं आवश्यकं मुख्यं धर्ममाह--- प्रयत्नेन विद्याऽऽराधनद्वारा पूर्णख्यातिसमावेशनेच्छा चेत्येते सामयिकाचाराः ॥ ८ ॥ प्रयत्नेन सावधानेन जितेन्द्रियेणेति यावत् । श्री विद्याऽऽरा धन द्वारा प्राक्पपञ्चितामपूर्णख्यातिं व्युदस्य पूर्ण ख्या तिः जीवस्य स्वतस्सिद्धा या पूर्णख्यातिः सा प्रकटा भवतीत्याकारिका इच्छा तां सदा कुर्यात् । ए ते इच्छाऽन्ता निरूपिता धर्माः सा म यि काः समये कुलशास्त्रमर्यादायां वर्तमानाः, ते कुलशास्त्रप्रतिपादिता उपासकधर्मा इति यावत् ॥ ८० ॥ पूर्वोक्तान् इच्छाऽन्तान् आचारान् कण्ठरवेणोक्त्वा ग्रन्थविस्तरभयात् शेषधर्मान् शास्त्रान्तरोक्तान् ग्राह्यत्वेन अतिदिशति परे च शास्त्रानुशिष्टाः ॥ ८१ ॥ ये पूर्वोक्ताः तेभ्यः परे अन्यधर्माः ते शास्त्रे तन्त्रान्तरे अनु शिष्टाः तेऽपि । ग्राह्याः इति शेषः ॥ तन्त्रान्तरात् ग्राह्यधर्मपरिगणनम् ते च धर्माः तन्त्रान्तरे प्रसिद्धाः संगृह्यन्तेअशोकपुष्पितवृक्षकोकिलमांसकुलशास्त्रपुस्तकानां दर्शने नमनम् ।। न नमां स्त्रियमीक्षेत कुरूपी प्रकटस्तनीम् । दृष्ट्वा तु विकृतां वाऽपि नोपहासं समाचरेत् ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy