________________
दशमः खण्डः --- - सर्वसाधारणक्रमः
योषितामप्रियं नैव कुर्यात् कार्यं प्रियं सदा । न स्वपेत् कुलवृक्षाधः तत्पत्रे नैव भोजनम् ॥ वृथा छेदं न कुर्याच्च नमस्कुर्याच्च दर्शने । शपथं नैव कुर्वीत कार्ये क्वापि समुत्थिते ॥
३४३
इत्येवंरूपाः । तानप्यनुतिष्ठेत् । इत्युक्ताः समयाचाराः ॥
अथ प्रसङ्गात् यद्वचनं मुख्यत्वेन पुरस्कृत्य अन्यानि प्रमाणानि तदुपोइलवेन स्वीकृत्य तन्त्रान्तरस्पर्शस्त्यक्तः तद्वचनं त्रिपुरारहस्ये -
क्वचित्तन्त्रेषु विस्तारः क्वचित्तन्त्रेषु सङ्ग्रहः । एकं तन्त्रं समाश्रित्य सम्यक् कर्मकृते तथा ॥ सर्वे तेन कृतं राम तच्च श्रीगुरुमार्गतः । तन्त्रानुक्तं सूचितं च तथाऽन्येष्वतिदूषितम् ॥ अकृतं यत् कर्म राम विकल्पेन विवर्जितम् । तदन्यस्मादुपादेयं एष शास्त्रविनिर्णयः ॥ इति ||
अस्मिन् वचने तन्त्रान्तरात् ग्राह्याणां परिगणनं कृतम् । सूचितं यथा -- षोढाचक्रे न्यसेत् । एतावत्सूचनया षोढाचक्रन्यासानुष्ठानक्रमः तन्त्रान्तरात् ग्राह्यः । तथा यदकरणे तन्त्रान्तरे अतिनिन्दा श्रूयते तदपि कस्य चित् अनङ्गभूतम्, परप्रयोगोऽनन्तः, न स्वतन्त्रम्, तदपि परतन्त्रात् ग्राम् । एतद्विस्तरः प्रपञ्चितः प्राक् श्रीक्रमे ॥
तदुदाहरणरूपाणि सूत्रानुयायिभिः कानि कानि कर्तव्यानि इत्याकाङ्क्षायां सूत्रानुयायिनां आवश्यकं परतन्त्रस्थमुच्यते
नित्यं रहस्यनामसहस्रपाठः । तदपाठे निन्दा अतीव श्रू । तत् दर्शितं प्राक् ॥
एवं दीक्षितस्य मृतस्यान्त्येष्टिः तन्त्रप्रतिपादिता आवश्यकीअन्त्येष्टिविधिना हीनो मण्डलस्थो न जायते ॥
इति तन्त्रे निन्दाश्रवणात् पूर्वोक्त त्रिपुरारहस्योदाहरणरूपत्वात् ॥