________________
३४४
परशुरामकल्पसूत्रम्
अन्त्येष्टिविधिः अन्त्येष्टिविधिस्त्रिकूटारहस्येईश्वर उवाच
अथातः संप्रवक्ष्यामि विधिमन्त्येष्टिसंज्ञितम् । अवश्यं तत् साधको वै कुर्यात् गुर्वादिषु प्रिये ॥ १ ॥ अन्त्येष्टिविधिना हीनो मण्डलस्थो न जायते । तस्मात् कुर्यात् प्रयत्नेन चान्त्येष्टिविधिमुत्तमम् ॥ २ ॥ यस्य न क्रियते देवि न दीक्षाकुलमश्नुते । नैव कृत्वाऽन्त्येष्टिविधि कौलश्राद्धे न चाहता ॥ ३ ॥ सूतकान्ते तदाद्ये वा मासे वर्षेऽपि वा शिवे । अन्त्येष्टिमेवं कुर्वीत मण्डलान्तर्गताय वै ॥ ४ ॥ यस्यान्त्येष्टिर्न क्रियते प्रमादेनापि हेतुतः । तन्नाम्ना मूलमयुतं जप्त्वा श्राद्धं ततश्चरेत् ॥ ५ ॥ न ज्ञायते यस्य नाम तस्य श्राद्धविधौ शिवे । मानवौघाद्यनाम्ना तु सर्व देवि समाचरेत् ॥ ६ ॥ मृतेऽह्नि पर्वसु तथा तीर्थश्राद्धं समाचरेत् । उपासको हि तद्वंश्यो वीरत्वं गच्छतीश्वरि ॥ ७ ॥ बाह्यसंस्कारयोगेन प्रेतत्वाच्च विमुक्तितः । मण्डलान्तःप्रवेशार्थमन्त्येष्टिं तु समाचरेत् ॥ ८ ॥ एकान्ते तु शुचौ देशे संकल्प्योदङ्मुखः शिवे । आचार्य चापि ब्रह्माणं वृणुयात् तत्र शक्तितः ॥ ९ ॥ आचार्यस्तु समाथ नैवेद्यान्ते विधानतः । हस्तसम्मितवेद्यां तु सिन्दूररजसा लिग्वेत् ॥ १० ॥ श्रीयन्त्र तत्र चावाह्य देवतां शक्तितो यजेत् ।
वितस्तिसंमितां तत्र कुशपुत्तलिकां न्यसेत् ॥ ११ ॥ ' जपेत्-अ, श्री.