________________
दशमः खण्डः सर्वसाधारणक्रमः
३४.५
अवाक्शीर्ष तत्र वीरं नाम्नाऽऽवाह्य विधानतः । आगच्छ वीरपुरुष तिष्ठ चात्र कृतक्षणः ॥ १२ ॥ विनियुक्तो मया पश्चात् परं धाम प्रपत्स्यसि । मण्डलेषु निविष्टः सन् भुवनेषु चिरं स्थितः ।। १३ ॥ निर्वतिं परमां प्राप्य याहि तत् परमं पदम् । एतज्जपित्वा तत्कणे न्यसेत् तस्मिन् षडङ्गकम् ॥ १४ ॥ तन्मात्राकर्षिणी: पञ्च श्रोत्रादिषु तु विन्यसेत् । हृदि चित्ताकर्षिणी तु मूर्ध्नि काळी तु बीजतः ॥ १५ ॥ मर्मकृन्तनिकां कण्ठे चाङ्कुशाद् ब्रह्मरन्ध्रके । प्राणाकर्षिणिकां आं ह्रीं मुखे कृत्वा तु विन्यसेत् ॥ १६ ॥ ततस्तु मन्त्रं संश्राव्यं निष्प्राणं तु 'विलापयेत् । कालधर्मं तु संप्राप्य न क्लेशं प्राप्तुमर्हसि ॥ १७ ॥ न ते मृत्युः शिवो यस्मात् साक्षात् त्वं बहुशक्तिमान् । स्वशक्त्या स्वस्वरूपस्य गोपनारूपया ननु ।। १८ ।। स्वातन्त्र्याख्यमहाशक्त्या पशुत्वं प्राप्तवानसि । गुरोर्वाक्यं स्मर क्षिप्रं भव श्रीशिवरूपकः ॥ १० ॥ देहाश्रितात् समुत्क्रम्य सर्वकर्तृत्वमाप्नुहि । शिवामौ देहसंस्कारं ततः संकलयेच्छिवे ॥ २० ॥ पादजानूरुनाभीषु हृत्कण्ठमुखलोचने । मूनि विन्यस्य चक्रेशी मन्त्रं चक्रात्मकं म्मरन् ॥ २१ ॥ संपूज्य च विशेषाात् तन्नाम्ना तर्पयेत् त्रिधा । पार्श्वे मृताग्निं संस्थाप्य यन्त्राद्देवीं समावहेत् ॥ २२ ॥ संपूज्य तु विशेषाात् त्रिधा सन्तर्प्य वै ततः । पलाशसमिधा मूलेनाष्टोत्तरशतं हुनेत् ॥ २३ ॥ वृतेन सुचमापूर्य वीरं तत्र तु निक्षिपेत् ।
दक्षपादं तदोत्तानं सुवेणाच्छादयेत् ततः ।। २४ ॥ विभावयेत्--३२.
A.A