________________
३३८
परशुरामकल्पसूत्रम्
उल्लास भेदज्ञात्वा प्राप्य मूढत्वमम्बिके । 'जिह्वालोलुपभावेन चेन्द्रियप्रीणनाय च । यः पिबेत् तं तु तामित्रे मातृकाः पातयन्ति हि ॥ इत्यनेनोक्त एवार्थः प्रकटीकृतः स्वतन्त्रतन्त्रे । इत्यलमतिविस्तरेण ॥ ६८ ॥ अवशिष्टा उपासकधर्माः
एवं प्रसङ्गात् आचारविधिमुक्त्वा पुनः शिष्टान् धर्मान् वक्तुं प्रक्रमतेरक्तात्यागविरक्ताऽऽक्रमणोदासीनाप्रलोभनवर्जनम् ॥
रक्ता आत्मना साकं भोगे आसक्ता तां न त्यजेत् । एवं स्वस्मिन् विरक्ता या तां बलात्कारेण नोपभुञ्जीत । या चोदा सीना तां धनादिना प्रलोभ्य तदुपभोगोऽपि न कार्यः ॥ ६९ ॥
घृणाशङ्काभयलज्जाजुगुप्साकुलजातिशीलानां
क्रमेणावसादनम् ॥ ७० ॥
वृणा दया । शङ्का विधिविहितहिंसायां द्वितीयादिसंपादनविषये, एवं प्रथमादिग्रहणे संशयः । जुगुप्सा द्वितीयादिविषयकस्तिरस्कारः अन्तःकरणवृत्तिविशेषः । कुलं गोत्रम् । जातिः ब्राह्मणत्वादिः । शीलं स्वभावः । इमान्यविद्यामूलानि अनेकजन्मस्वनुवृत्तानि क्रमेण तत्तद्भूमिकां प्राप्य अवसादनं त्यागः कार्य इति शेषः ॥
प्रथमभूमिकामारूढः हेयं किं ग्राह्यं किं इति परिशोधयेत् । ततः यत् हेयं तस्य त्यागेच्छां द्वितीयभूमिकाssरूढः कुर्यात् । तृतीयभूमिकाऽऽरूढः त्यागसाधनानि संपादयेत् । चतुर्थभूमिकाऽऽरूढः संपादितसाधनैः सह यत्नं कुर्यात् । पञ्चमभूमिकाssरूढः उक्तधर्मान् मनसि त्यजेत् न बाह्यतः । षष्ठभूमिकाऽऽरूढः सर्वथा त्यजेत् । एवं स्वस्य तत्तद्भूमिकाऽऽरूढत्वज्ञानं सम्यग्विचार्य निश्चित्य पश्चात् तद्धर्मान् अनुसरेत् । न त्वन्यथा । अन्यथा कुर्वन् पतनायैव कल्पेत । तदुक्तं भागवते -
1
" स योगिनीनां सततं पशुः स्यादन्यथा पिबन् " इत्यधिकः -- अ.