________________
दशमः खण्डः-सर्वसाधारणक्रमः अयत्नात्तु लयो यत्र प्रौढ इत्युच्यते शिवे । ईषञ्चलो लयश्चापि प्रौढान्तः समुद्राहृतः ।। यदा यत्नात् सञ्चलनं तदा म्यादुन्मनः शिवे । .
निश्चलत्वं सर्वथा चेत् तदात्यन्तिक ईरितः ।। इति ।। अभ्यार्थः ----पूर्व श्रीप्रकरणे अधिकारिभेदेन पात्रसंख्याव्यवस्था सप्रमाणमुक्ता । तावत्पात्रम्यैव व्यवस्थया ग्रहणं आरंभोल्लासः । तदनन्तरं पात्रवृद्धिः ईषदुन्मादरूपबोधाय क्रियते स तरुणः । ततोऽपि पात्रवृद्धिं संपाद्य मध्यमबोधजननं यौवनः । यावता पात्रसेवनेन स्वाभाविकतया चञ्चलम्य मनसः शास्त्रोक्तध्यानेन स्वप्रयत्नसाध्यन स्थिरता भवेत् तावत्पात्रसेवनं प्रौढः । अयत्नादेव ईषच्चलनं मनसः, अयनादेव स्थिरीभावः, ईदृशं यावत् भवति तावत्पात्रमेवनं तदन्तः । यावताऽयत्नान्मनसः स्थिरीभावः मनसश्चलनं तावत्पात्रसेवनं उन्मनः । यावता यत्नेनापि मनश्चालयितुं न शक्नोति सोऽनवस्थः इति ॥
___ एवं पात्रसेवनवृद्धिं उल्लासभेदेन प्रदर्श्य सप्तसूलासेषु मध्ये कम्मिन कोऽधिकारीति विवक्षायां अधिकारिव्यवस्थाऽप्युक्ता परमानन्दतन्त्रे ----
अशक्ताबुधबालानामारंभः परिकीर्तितः । तरुणो नूतनानां म्याद्भक्तिमात्रस्य यौवनः ।। प्रौढः म्यादारुरुक्षोर्वे मध्यारूढम्य तत्परः ।
पूर्णारूढभ्योन्मनश्च तद्वदात्यन्तिकोऽपि वा ॥ इति ।। इत्थं च अमीषां वचसां तत्त्वे निर्मथ्यमाने उल्लासलक्षणं मदुक्तमेव पर्यवम्यति । उपासकस्य निरुक्तोल्लासरूपाः दशाविशेषाः स्वान्तःकरणैकवेद्याः । स्वयं विद्वान् म्वीयां दशां सूक्ष्मधिया सम्यक् परिशोधयेत् । एवं परिशोध्य तुरीय प्रौ ढो लासपर्यन्तं शास्त्रप्रथिताः स म या चाराः कार्याः । अत ऊ+ य था का मी विहरेत् इति भावः ।। - एवं समयाचारपरिग्रहः त्यागश्चोक्तः अधिकारिभेदेन । तमधिकारं स्वबुद्धया अविचार्य यदि कामचारी भवेत् तर्हि पतेदेवेत्याह---स्वैर व्य व हारे वि ति । वीराः पञ्चमषष्ठसप्तमोल्लासिनः । अ वी राः पञ्चमोल्लासवन्तः । अनयोः अ य था म न ना त् याथार्थ्यं अविदित्वा यदि स्वैरचारी भवेत् तर्हि पतेदेव निरय इत्यर्थः ।
43