________________
३३६
परशुरामकल्पसूत्रम्
नैमित्तिके यद्यशक्तौ जपेदष्टोत्तरं शतम् ॥ इति ॥
अस्यापि कालः स एव । संक्रान्तिपर्वकालो ज्योतिर्निबन्धप्रार्ध्व दश चैव मेषयोः सिंहे वृषे वृश्चिकं
कुंभे षोडश पूर्वतोऽथ मिथुने मीने धनुः कन्ययोः । ऊर्ध्वाः षोडश कीर्तिताः प्रथमतः त्रिंशत्तु कर्काट चत्वारिंशदधोऽपरास्तु मकरे पुण्यप्रदा नाडिकाः ॥ इति ॥ पञ्चपर्वस्विति कथनात् पञ्चपर्वसु सूत्रानुयायिन: पूजनमावश्यकम् । दमनपवित्रारोपणाद्यकरणे न प्रत्यवायः, करणे अभ्युदयः इति सिद्धम् ॥ ६७ ॥
आरम्भादयः सप्तोल्लासा:
अथैषां कुलधर्माणां अनुष्ठानविधिं वक्तुं तदुपोद्घातभूतान् उल्लासान् विभजतेआरम्भतरुणयौवनप्रौढतदन्तोन्मनानवस्थोल्ला - सेषु प्रौढान्ताः समयाचाराः । ततः परं यथाकामी । स्वैरव्यवहारेषु वीरावीरेष्वयथामननादधःपातः ॥ ६८ ॥
आरंभः, तरुणः, यौवनः, प्रौढः, तदन्तः, उन्मनः, अनवस्थः, उपासकस्य सप्त दशाविशेषाः । तत्र आरम्भो नाम उपासनाविषयकेच्छामात्रवत्त्वे सति तन्त्रशास्त्रानभिज्ञत्वम् । सम्यग्गुरुं संपाद्य दीक्षितस्तदनन्तरं तन्त्रशास्त्र पिपठिषाशालित्वं तरुणोल्लासः । ततस्तच्छास्त्र विषयकज्ञानवत्त्वं यौवनोल्लासः । ततः तच्छास्त्रविषयकतत्त्वज्ञानं संपाद्य शास्त्रप्रतिपादितध्यानं कर्तुमीहमानत्वं प्रौढोल्लासः । तदिच्छाऽनन्तरं किंचिदभ्यस्ते ध्यानवत्त्वं तदन्तोल्लासः । ततो ध्यानेन कंचित्कालं मनोलयशक्तिमत्त्वं उन्मनोल्लासः । पूर्णारूढत्वं अनवस्थोल्लासः । अत्र प्रमाणं परमानन्दतन्त्रे
यस्य यावत्पात्रमुक्तमारम्भस्तस्य तावता । तत्पश्चात् तरुणो देवि ईषद्बोधोदये सति ॥ तत्पश्चान्मध्यबोधस्य चोदयाद्यौवनो मतः । यत्नान्मनोलयो देवि यदा स्याद्यावता शिवे ॥