________________
दशमः खण्डः -२ - सर्वसाधारणक्रमः
३३५
रक्तवसना रक्तवस्त्रपरिधानवती । मत्तेभः प्रसिद्धः । एतेषां दर्श ने वन्दनं नमनं कुर्यात् । तदपि मानसे, स्वधर्माणां प्राकट्ये निरयश्रवणात् ॥ ६६ ॥
पञ्चपर्वसु नैमित्तिकी पूजा
अथ नैमित्तिकपूजामाह
पञ्चपर्वसु विशेषाच ॥ ६७ ॥
पञ्च पर्वाणि - कृष्णाष्टमी कृष्णचतुर्दशी अमा पूर्णिमा संक्रान्तिः इति । तदुक्तं तन्त्रे—
कृष्णाष्टमीचतुर्दश्यौ पूर्णिमामा च संक्रमः ।
एतानि पञ्च पर्वाणि
श्रीदेवीभागवते
'कृष्णाष्टमी च तद्भूता पूर्णिमा संक्रमो रवेः । एतानि पञ्चपर्वाणि दुर्लभं तत्र पूजनम् ॥ इति ॥
इति ॥
एतेषु पञ्चपर्वसु विशेषेण विशेषद्रव्येण मुख्यमपञ्चकेन न तु प्रतिनिधिनेति यावत् । नैमित्तिकपूजायां कृष्णाष्टम्यादितिथयः प्रदोषव्यापिन्यः ग्राह्याः । तदुक्तं नित्यातन्त्रे
प्रदोषव्याप्त तिथ्यादौ कुर्यान्नैमित्तिकार्चनम् । विषमे त्वधिकं ग्राह्यं समे परदिनं तथा । रात्रिव्याप्तेरलाभे वै पर्वयोगे दिवैव तु ॥ इति ॥
रात्रिव्याप्तेरलाभ इत्यत्र रात्रिपदं प्रदोषपरम् । उभयदिने अव्याप्तौ सङ्क्रान्त्यादौ दिवा पर्वयोगे च परदिने दिवैव पूजनं कुर्यादित्यर्थः ॥
1
प्रतिनिधिना नैमित्तिकपूजा न कार्या इत्यत्र प्रमाणमुक्तं " मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः” इत्यस्य व्याख्याने प्रथमखण्डे । नैमित्तिकपूजायामशक्तिः द्विविधा, द्रव्यालाभात् शरीरदेश संपत्त्यभावाच्च । एवं अशक्तौ पूजाप्रतिनिधित्वेन कर्मोक्तं परमानन्दतन्त्रे
1 अत्र श्लोका गळितं स्यात्.