________________
परशुरामकल्पसूत्रम्
सर्वत्र कुलशास्त्रविहितक्रियासामान्ये अस्मिन् शास्त्रे विहितं किं अविहितं किं इति परिशोध्य सप्रमाणं कर्म अनुष्ठेयमिति भावः ॥ ६४ ॥
अन्यं धर्ममाहदशकुलवृक्षानुपप्लवः ॥ ६५॥ श्लेष्मातककरञ्जाम्रनिम्बाश्वत्थकदम्बकाः ।
बिल्वो वटोदुम्बरौ च तिन्त्रिण्या सहिता दश ।। इति तन्त्रान्तरे प्रसिद्धाः ये कु ल वृक्षाः तेषा म नु प प्ल वः अच्छेदनम् ॥ ६५ ॥
धर्मान्तरमाह
स्त्रीबृन्दादिमकलशसिद्धलिङ्गिक्रीडाऽऽकुलकुमारीकुलसहकाराशोकैकतरुपरेतावनिमत्तवेश्याश्यामारक्तवसनामत्तेभानां दर्शने वन्दनम् ॥ ६६ ॥ स्त्री बृ न्दं सुवासिनीबृन्दम् , न तु विधवानाम् ,
सुवासिनीकुमारीणां समूहं मदिराघटम् ॥ इति तन्त्रान्तरवचनात् । आ दि म क ल शं मदिरापूर्णघट: । सिद्धाः मन्त्रसिद्धिमन्तः, तेषां लिङ्गानि पूर्व वाराहीप्रकरणे लिखितानि, तच्छालिनः सिद्ध लि ङ्गि नः । क्रीडा सु आ कुलाः व्याकुलाः व्यासक्ताः कु मा यः कन्याः तासां कुलं समूहः । स ह का रोऽतिसुगन्धिचूतः, “आम्रचूतो रसालोऽथ सहकारोऽतिसौरभः" इत्यमरः । अशोकः प्रसिद्धः । एक त रुः यो वा को वा अद्वितीयः नेत्रसंचारपर्यन्तं तरुः । न च सहकाराशोकात्मक एकतरुः इति शङ्कनीयम् ,
मत्तेभं सहकारेच्छाऽप्यशोकं पुष्पितद्रुमम् । .. श्मशानं द्रव्यसौगन्ध्यमेकवृक्षं च कीलकम् ॥ इति तन्त्रान्तरवचनात् । परे ता व निः श्मशानम् । मत्त वे श्या यौवनभरा वेश्या । यद्वा-पानादिना मत्ता । श्या मा यौवनमध्यस्था तारुण्यनिर्भरेति यावत् ।