Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 379
________________ दशमः खण्ड:--सर्वसाधारणक्रमः ३५५ आर्द्रकान्तं मूलकं स्यात् क्षीरादौ मन्त्रसंजपः । । प्रत्यक्षतो द्वितीय तु एतत्प्रत्यक्षमिप्यते ॥ ४३ ॥ द्वितीयादिकपर्यायं स्थापयेदष्टदिश्वथ ।। अथवा मन्त्रजापो वै नित्यं तुर्य तु सर्वदा ॥ ४४ ॥ पञ्चमे शृणु देवेशि द्वैविध्यं चोक्तमेव ते । आद्यं तत्र कलौ देवि त्रिसहस्रान्तमिप्यते ॥ ४५ ॥ द्वितीयं तु भवेत् देवि स्वयोषिति सुरेश्वरि । अथवा लिङ्गयोन्योश्च कुसुमं तत्र योजयेत् ॥ ४६॥ काश्मीरपङ्के मूलेन श्वेतचन्दनपङ्ककम् । संयोज्य योजयेत् देवि मूलाष्टजप एव वा ॥ ४७ ॥ द्रव्यं साक्षात् पञ्चमं तु दुर्लभं तु कलौ युगे। जितेन्द्रियाणां धीराणां योगिनां सुलभं भवेत् ॥ ४८॥. कदाचिच्छक्तितः पूर्व क्षोभे जाते शिवस्य वै।। शक्त्यसंतोषतो देवि नाशमेति स वै पुमान् ॥ ४९ ॥ . तस्मात् स्वस्यां परस्यां वा अन्त्यं नैव समाचरेत् । प्रतिनिध्यैव कर्तव्यं कलौ देवि सुनिश्चितम् ॥ ५० ॥ उपासको नु नित्यं वै परिवारार्चनं चरेत् । नित्यामण्डलकं चैव गुरुमण्डलकं तथा ॥ ५१ ॥ पञ्चिकां समयां चैव आम्नायसमयां यजेत् ॥ ५२ ॥ .. अथवा दिननित्यास्तु नित्यां च गुरुमण्डलम् ।। समष्टया पञ्चिकां चापि पूजयेदापदादिषु ॥ ५३ ॥ परमापत्तिकाले तु आवृतेः पञ्चकं त्रिकम् । समष्टया चेतरत् सर्वं परमापत्तिगोचरम् ॥ ५४ ॥ पूजाऽन्तरे महाविघ्ने प्राप्ते संशृणु निश्चितम् ।। पूर्व संकल्पतो देवि न दोषस्तत्र विद्यते ॥ ५५ ॥ .. संकल्यानन्तरं देवि विसृज्योपोषणं चरेत् । .. . सपर्यो मानसीं कुर्वन् पुनः पूजां समाचरेत् ॥ ५६ ॥.....

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413