Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 373
________________ दशमः खण्डः—– सर्वसाधारणक्रमः मित्रेशादिस्वरूपांश्च पितॄन् संपूजयेत् क्रमात् । व्यष्ट्या वाऽथ समष्ट्या वा पूर्वोत्तरमुखान् शिवे ॥ ६ ॥ आसनावाहने कृत्वा प्रार्थयेत्तु कृताञ्जलिः । विश्वेदेवा: स्वागतं वो यज्ञेऽस्मिन् स्थीयतां क्षणम् ॥ ७ ॥ सावधानेन मनसा स्वीकुर्वन्तु सभाजनम् । चतुरश्रे तथा वृत्ते मण्डले पूज्य पादयोः ॥ ८ ॥ क्षाळनं वाऽथ सामान्यादर्थ्यादर्ध्य विनिक्षिपेत् । आचामयेत्तान् वस्त्रादिदीपान्तेन पितृन् यजेत् ॥ ९ ॥ स्वाहाऽन्तनाम्ना तत्पात्रात् तेभ्यः पात्रं प्रकल्पयेत् । पूर्ववन्मण्डलं कृत्वा पूज्य भोजनपात्रकम् ॥ १० ॥ परिवेष्याभ्यक्ष्य तद्वै दत्वा हस्ते तथोदकम् । संविन्मये महापात्रे आनन्दमयभोज्यकम् ॥ ११ ॥ भोक्ता त्वं पुरुषः साक्षी महाशक्तिर्महेश्वरः । सर्वमन्नं शक्तिमयं भोक्ता साक्षात् परः स्वयम् ॥ १२ ॥ तस्मात् सर्व शिवः : साक्षात् भोक्ता दाता च भोज्यकम् । विश्वेदेवा देवता नो भुञ्जन्त्वत्र मखे मम ॥ १३ ॥ यावच्छक्यं तावदिह भोक्तव्यं स्वस्थमानसैः । पेयं खाद्यं भक्ष्यभोज्यं सर्वं वस्तु समर्पितम् ॥ १४ ॥ पितॄणां परमानन्दहेतवे तद्भवेच्छिवम् । इत्येवं तोयमुत्सृज्य पितृस्थानेऽपि चोत्सृजेत् ॥ १५ ॥ तत आपोशनं दत्वा यथेष्टं भोजयेत् ततः । यथासंभवपक्काद्यैः तृप्ता यूयं भविष्यथ ॥ १६ ॥ कुलद्रव्यैश्चर्वणैश्च पितॄणां शान्तिहेतवे । प्राथ्यैवं भोजनस्यान्ते प्रार्थयेत् पुनरेवच ॥ १७ ॥ विश्वेदेवाश्च पितरस्तृप्ताश्चास्मिन् महामखे । सर्वे समिष्टं संपन्नं भवत्वत्र यथेप्सितम् ॥ १८ ॥ ફ્

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413