Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 376
________________ परशुरामकल्पसूत्रम् अङ्गेऽपि देवि द्वैविध्यं मुख्यगौणत्वभेदतः । गौणाङ्गलोपे मूलस्य दशधा जपतः शुचिः ॥ ३ ॥ मुख्याङ्गलोपे शतधा अङ्गिलोपे पुनःक्रिया । अङ्गाङ्गिभेदं देवेशि शृणु विस्तरतः शिवे ॥ ४ ॥ जपे षडङ्गन्यासस्तु गौणाझं परिकीर्तितम् । ध्यानमृष्यादिकं पूजा मुख्याङ्गमिति कथ्यते ॥ ५ ॥ सन्ध्यायां मूलदेव्यर्थे जपे चाङ्गित्वमिष्यते । मार्ताण्डवाग्भवाद्यये मुख्याङ्गत्वं प्रकीर्तितम् ।। ६ ।। आकालमङ्गिलोपे तु पुनः कर्म भवेदिह । आपद्यङ्गस्य लोपे तु कालत्यागेऽपि नास्त्यघम् ॥ ७ ॥ सन्ध्याऽन्तरे तु संप्राप्ते शतमष्टोत्तरं जपेत् । आशौचद्वितये देवि प्रधानं मानसं चरेत् ॥ ८ ॥ पूजाऽऽदिकं समानं वै बाह्यमन्येन कारयेत् । क्षयाशौचे देवताया मण्डले न व्रजेच्छिवे ॥ ९ ॥ अज्ञानेन गतश्चेद्वै देवताशापमाप्नुयात् । तद्दोषपरिहारार्थं पुनर्मण्डलमाचरेत् ॥ १० ॥ देवतां पयसा नाप्य मूलातर्पणमाचरेत् ॥ ११ ॥ पञ्चवारं घृतेनैव होमं कुर्याद्वरानने। ब्राह्मणान् भोजयेत् पश्चात् देवताशान्तिमाप्नुयात् ॥ १२ ॥ त्रिरात्रं सन्ध्यया हीनः सहस्रं जपमाचरेत् । अहोरात्रमनश्नन् वै ततः शुद्धो भविष्यति ॥ १३ ॥ अष्टरात्रमसन्ध्यो वै त्रिरात्रोपोषणाजपात् । मासेऽतीते तु देवेशि पतितश्च बहिष्कृतः ॥ १४ ॥ मण्डलाबाह्यगः सर्वकर्मायोग्यो महेश्वरि । एष एव जपे मार्गः मासादूर्ध्व पतत्यधः ॥ १५ ॥ पूजायां शृणु देवेशि भेदमङ्गाङ्गिनोः म्फुटम् । आवृतिर्गुरुनित्याऽर्चासमयाम्नाययोरपि ॥ १६ ॥

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413