Book Title: Parsuram Kalpasutra Part 01
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
३२५
दशमः खण्ड:-सर्वसाधारणक्रमः - तादृशदुर्जनेषु नि ग्रहः । यथा तन्नाशः स्यात् तथा वर्तितव्यम् । लौकिकेन गौकिकेन व्यापारण तस्य निरासः कार्यः इति भावः ॥ ५८ ॥
एवमुदासीनेषु विरोधाभाव परिपन्थिषु निग्रहं प्रदर्श्य भक्तिभूमिकामारुरुक्षुणां __ऽऽदिना सम्यक् श्रितानां प्रसादं संपादितवतामुपरि किं कार्यमित्याशङ्कायामाह
अनुग्रहः संश्रितेषु ॥ ५९ ॥ संश्रिते षु चिरकालं प्रसादितेषु तेषु अनु ग्रहः, विद्याप्रदानादिना तेषां रथपूरणं कर्तव्यमिति शेषः ॥ ५९ ॥ एवं गुरोधर्मानुक्त्वा प्राप्तविद्येन शिष्येण कथं वर्तितव्यं इति तं प्रकारमाह
गुरुवत् गुरुपुत्रकळत्रादिषु वृत्तिः ॥ ६० ॥ आ दि पदेन गुरुपूज्यानां ग्रहणम् । अत्र यद्यपि गुरुवृत्तिः तत्कळत्रादिष्वतिगुरुवृत्तिश्च नोक्ता, तथाऽपि अतिदेशेनैव ज्ञापितो गुरुधर्मः तन्त्रान्तरोक्तोनुमत इति । गुरौ यथा वर्तितव्यं तत्प्रकारः कुलार्णवादिषु---
एकग्रामे क्रोशदूरे चार्धयोजनके स्थितः । गुरोस्त्रिसन्ध्यैकसन्ध्ये पञ्चपर्वसु दर्शनम् ॥ एकयोजनमारभ्य योजनद्वादशावधि । तत्तद्योजनसङ्ख्याकैः मासैः स्यात् गुरुदर्शनम् ॥ अतिदूरे नमेच्छिष्यस्तद्दिशाऽभिमुखो गुरुम् । रिक्तहस्तो नैव चिरात् पश्येदेवं गुरुं स्वकम् ॥ गुरौ मनुष्यबुद्धिं च मन्त्रे चाक्षरबुद्धिताम् । न कुर्याद्यन्त्रमूर्त्यादौ शिलाबुद्धयादिकं तथा ॥ गुरुं पश्येत् सदा भक्त्या साक्षाच्छिवमयं बुधः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।। ऋणदानं तथाऽऽदानं तथैव क्रयविक्रये । न कुर्यात् गुरुभिः सार्धं तदाज्ञां नैव लवयेत् ॥

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413